| YouTube Channel

दानफलं (dAnaphalaM)

 
शब्दकल्पद्रुमः
Sanskrit
दानफलं,
क्ली,
(दानस्य फलम्) दानजन्यफलम् ।तद्बिवरणं यथा, --“गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः ।तदनन्तफलं विद्धि अवस्थात्रितये नृप !
तमोवृतस्तु यो दद्यात् भयात् क्रोधात्तथैव ।नृप ! दानन्तु तत् सर्व्वं भुङ्क्ते गर्भस्थ एव तु
ईर्षामन्युमनाश्चैव दम्भार्थं चार्थकारणात् ।यो ददाति द्विजातिभ्यः बाल्ये तु तदश्नुते
वैश्यदेवविहीनञ्च सन्ध्योपासनवर्ज्जितम् ।यद्दानं दीयते तस्मै वृद्धकाले तदश्नुते
वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।तान्यहं संप्रवक्ष्यामि यथावदनुपूर्व्वशः
अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा ।परपाकं सदाश्नन्ति परतापरताश्च ये
देवपितृविहीनं यत् ईश्वरेभ्यः सदोषतः ।दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने
अन्यायोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा ।गुरवेऽनृतवक्त्रे स्तेनाय पतिताय
कृतघ्नाय यद्दत्तं सर्व्वदा ब्रह्मविद्बिषे ।याचकाय सर्व्वस्य वृषल्याः पतये तथा
परिचारकाय भृत्याय सर्व्वत्र पिशुनाय ।इत्येतानि तु राजेन्द्र ! वृथादानानि षोडश
”इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा-ध्यायः