| YouTube Channel

दानधर्म्म (dAnadharmma)

 
शब्दसागरः
English
दानधर्म्म
m.
(-र्म्मः)
1. Almsgiving, charity.
2. The rules for making
donations.
E.
दान, and धर्म्म virtue.
Yates
English
दान-धर्म्म (र्म्मः) 1.
m.
Almsgiving.
Wilson
English
दानधर्म्म
m.
(-र्म्मः)
1 Almsgiving, charity.
2 The rules for making donations.
E.
दान, and धर्म्म virtue.
वाचस्पत्यम्
Sanskrit
दानधर्म्म
पु०
दानरूपो धर्मः दानात्मके धर्मे भारतेआनुशासनपर्वणि ५७ अध्यायावधिषु ६९ अध्यायान्तेषुविस्तरेणोक्तः अन्यश्च “अथातः संप्रवक्ष्यामि दानधर्म-मनुत्तमम् अर्थानामुचिते पात्रे श्रद्धया प्रति-पादनम् दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् ।न्यायेनोपार्जयेद्वित्तं दानभोगफलञ्च तत् अध्यापनं याज-नञ्च वृत्तिर्विप्रे प्रतिग्रहः रक्षणं विजयश्चैव क्षत्रवृत्ति-रुदाहृता कुसीदं कृषिबाणिज्यं वैश्यवृत्तिः स्वभावजा ।यद्दीयते पात्रेभ्यस्तद्दानं परिकीर्त्तितम् नित्यं १नैमित्तिकं२ काम्यं विमलं दानमीरितम् अहन्यहनियत् किञ्चिद्दीयतेऽनुपकारिणे अनुद्दिश्य फलं तत् स्यात्ब्राह्मणाय तु नित्यकम्१ यत्तु पापोपशान्त्यै दीयतेविदुषां करे नैमित्तिकं२ तदुद्दिष्टं दानं सद्भिरनुष्ठि-तम् अषत्यविजयैश्चर्य्यस्वर्गार्थं यत् प्रदीयते दानंतत् काम्य (३) माख्यातमृषिभिर्धर्मचिन्तकैः ईश्वरप्रीण-नार्थाय ब्रह्मवित्सु प्रदीयते चेतसा सत्वयुक्तेन दानंतत् विमलं स्मृतम् “इत्युपक्रम्य गारुडे ५१ अ० उक्तः ।“दानधर्मात् परोधर्मो भूतानां नेह विद्यते” तत्रैवाध्याये