| YouTube Channel

दात्वा (dAtvA)

 
Kridanta Forms
Sanskrit
दै (दै॒प् शोधने - भ्वादिः - अनिट्)
ल्युट् = दानम्
अनीयर् = दानीयः - दानीया
ण्वुल् = दायकः - दायिका
तुमुँन् = दातुम्
तव्य = दातव्यः - दातव्या
तृच् = दाता - दात्री
क्त्वा = दात्वा
ल्यप् = प्रदाय
क्तवतुँ = दातवान् - दातवती
क्त = दातः - दाता
शतृँ = दायन् - दायन्ती
दा (दा॒प् लवने - अदादिः - अनिट्)
ल्युट् = दानम्
अनीयर् = दानीयः - दानीया
ण्वुल् = दायकः - दायिका
तुमुँन् = दातुम्
तव्य = दातव्यः - दातव्या
तृच् = दाता - दात्री
क्त्वा = दात्वा
ल्यप् = प्रदाय
क्तवतुँ = दातवान् - दातवती
क्त = दातः - दाता
शतृँ = दान् - दान्ती / दाती
कृदन्तरूपमाला
Sanskrit
1 {@“दापू लवने”@} 2 ‘दाञो दत्ते ददातीति, दाणो यच्छति दो द्यति।
दाति दायति दाप्दैपोः, दयते रक्षणे ङितः।।’ 3 इति देवः।
दायकः-यिका, दापकः-पिका, दिदासकः-सिका, दादायकः-यिका
दाता-त्री, दापयिता-त्री, दिदासिता-त्री, दादायिता-त्री
4 प्रणिदान्-प्रनिदान्-ती-न्ती, 5 दापयन्-न्ती, दिदासन्-न्ती
-- प्रणिदास्यन्-प्रनिदास्यन्-न्ती-ती, दापयिष्यन्-न्ती-ती, दिदासिष्यन्-न्ती-ती
प्रदाः-प्रदौ-प्रदाः
-- -- -- अवदातम्-दातः, दापितः, दिदासितः, दादायितः-तवान्
6 प्रदः, दापः, दिदासुः, 7 दादाः
8 दातव्यम्, दापयितव्यम्, दिदासितव्यम्, दादायितव्यम्
दानीयम्, दापनीयम्, दिदासनीयम्, दादायनीयम्
देयम्, दाप्यम्, दिदास्यम्, दादाय्यम्
ईषद्दानः-दुर्दानः-सुदानः
-- -- दायमानः, दाप्यमानः, दिदास्यमानः, दादाय्यमानः
दायः, दापः, दिदासः, दादायः
दातुम्, दापयितुम्, दिदासितुम्, दादायितुम्
दातिः-प्रदा, दापना, दिदासा, दादाया
दानम्, 9 दात्रम्, दापनम्, दिदासनम्, दादायनम्
दात्वा, दापयित्वा, दिदासित्वा, दादायित्वा
प्रदाय, प्रदाप्य, प्रदिदास्य, प्रदादाय्य
दायम् २, दात्वा २, दापम् २, दापयित्वा २, दिदासम् २, दिदासित्वा २, दादायम्
दादायित्वा २।
प्रासङ्गिक्यः
01
=>
(८३३)
02
=>
(२-अदादिः-१०५९। सक। अनि। पर।)
03
=>
(श्लो। ४)
04
=>
[[१। ‘अदाप्’ (१-१-२०) इति पर्युदासात् अस्य धातोर्घुसंज्ञाप्रयुक्तानि कार्याणि भवन्ति। तेन शतरि, ‘अदिप्रभृतिभ्यः शपः--’ (२-४-७२) इति शपो लुकि, सवर्णदीर्घे, स्त्रियाम्, ‘आच्छीनद्योः--’ (७-१-८०) नुम्विकल्पे रूपम्। ‘शेषे विभाषा--’ (८-४-१८) इति ‘नि’ इत्यस्य णत्वविकल्पः।]]
05
=>
[[आ। ‘पान्त्यः शिशून् धान्यधनानि रान्त्यो लान्त्यश्च काश्चित् कुसुमानि दान्त्यः।।’ धा। का। २। ४९।]]
06
=>
[[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। निदर्शनार्थ कर्तरि प्रत्ययेष्वे- कमिह दर्शितम्। ‘दाण्’ धातोः (८३१) कर्तरि प्रत्यये प्रदर्शितानि सर्वाण्यपि रूपाणि प्रायोऽस्यापि भवन्ति।]]
07
=>
[[३। यङन्तात् पचाद्यचि, यङो लुकि सवर्णदीर्घे रूपमेवम्।]]
08
=>
[पृष्ठम्०७३९+ २७]
09
=>
[[१। ‘दाम्नीशस--’ (३-२-१८२) इत्यादिना करणे ष्ट्रन्प्रत्ययः। षित्त्वात् स्त्रियाम्, ‘षिद्गौरादिभ्यः--’ (४-१-४१) इति ङीष्।]]
1 {@“दीङ् क्षये”@} 2 स्वादिः।
3 दायकः-यिका, 4 दापकः-पिका, 5 दिदीषकः-दिदासकः-दित्सकः-त्सिका, 6 7 देदीयकः-यिका
दाता-त्री, दापयिता-त्री, दिदीषिता-त्री, देदीयिता-त्री
-- दापयन्-न्ती, दिदीषन्-न्ती
-- -- दापयिष्यन्-न्ती-ती, दिदीषिष्यन्-न्ती-ती
-- दीयमानः, दापयमानः, दिदीषमाणः, देदीय्यमानः
दास्यमानः, दापयिष्यमाणः, दिदीषिष्यमाणः, देदीयिष्यमाणः
प्रदाः-प्रदौ-प्रदाः
-- -- -- 8 दीनः-दीनम्-दीनवान्, दापितः, दिदीषितः, देदीयितः-तवान्
9 उपदायः, 10 प्रदः, दापः, दिदीषुः, देद्यः
दातव्यम्, दापयितव्यम्, दिदीषितव्यम्, देदीयितव्यम्
11 प्रणिदानीयम्-प्रनिदानीयम्, दापनीयम्, दिदीषणीयम्, देदीयनीयम्
देयम्, दाप्यम्, दिदीष्यम्, देदीय्यम्
12 ईषद्दानम्-दुर्दानम्-सुदानम्
-- -- दीयमानः, दाप्यमानः, दिदीष्यमाणः, देदीय्यमानः
दायः, दापः, दिदीषः, देदीयः
दातुम्, दापयितुम्, दिदीषितुम्, देदीयितुम्
दातिः, दापना, दिदीषा, देदीया
दानम्, दापनम्, दिदीषणम्, देदीयनम्
दात्वा, दापयित्वा, दिदीषित्वा, देदीयित्वा
13 14 प्रदाय, प्रदाप्य, प्रदिदीष्य, प्रदेदीय्य
दायम् २, दात्वा २, दापम् २, दापयित्वा २, दिदीषम् २, दिदीषित्वा २, देदीयम्
देदीयित्वा २।
प्रासङ्गिक्यः
01
=>
(८४४)
02
=>
(४-दिवादिः-११३४। अक। अनि। आत्म।)
03
=>
[[२। ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि ज्ञेयम्। आत्वं तु शतरं वर्जयित्वा सर्वत्र ज्ञेयम्।]]
04
=>
[[३। प्रत्ययोत्पत्तेः प्रागनैमित्तिक आत्वे, आदन्तलक्षणे पुगागमे रूपम्। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[४। सन्नन्ते, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, दीर्घे, षत्वे रूपम्। ‘मीनाति मिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यत्र ल्यब्ग्रहणात्, ‘दीङः। प्रतिषेधः स्थाघ्वोरित्त्वे’ (वा। १-१-२०) इति वार्तिकारम्भसामर्थ्याच्च, अस्यापि धातोर्घुसंज्ञाऽस्तीति कैयटपदमञ्जर्यादिषु व्यक्तम्। तन्मते, काश्यपादि मतेऽपि आत्वे, दिदासकः इति रूपम्। आत्वाभावपक्षे ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इसाऽऽदेशे, द्वित्वे, ‘अत्र लोपः--’ (७-४-५८) इत्यभ्यासलोपे, ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारे दित्सकः इत्यादीनि रूपाणि तृजादिष्वपि यथायथमूह्यानि। परं तु ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति सङ्केतात्, सन्निपातपरिभाषामाश्रित्य दीङः घुसंज्ञानिषेधादेतदप्रामाणिकमिति ज्ञायते। शाकटायनादयः घुसंज्ञामेवाशिश्रियुरात्वविकल्पं च।]]
06
=>
[पृष्ठम्०७५०+ २५]
07
=>
[[१। ‘यङन्तान्ण्वुलि, घुसंज्ञाप्रतिषेधात् ईत्वाभावे, द्वित्वे, अभ्यासस्य गुणे रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।’]]
08
=>
[[२। ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इति ओदित्त्वातिदेशात् ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे रूपम्।]]
09
=>
[[३। ‘मीनातिमिनोतिदीङाम्--’ (६-१-५०) इत्यनेनान्तरङ्गत्वेनात्वे, ‘श्याऽऽद्--’ (३-१-१४१) इत्यनेन कर्तरि णप्रत्यये, युगागमः।]]
10
=>
[[४। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्यये रूपम्। प्रदर्शनार्थं कर्तरि प्रत्ययेषु द्वावत्रोपात्तौ। ‘डु दाञ्--’ धातौ (८३०) यानि रूपाणि कत्रर्थे प्रदर्शितानि, तानि सर्वाण्यपि, अत्रापि प्रायशो ज्ञेयानि।]]
11
=>
[[५। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
12
=>
[[६। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच् प्रत्ययः।]]
13
=>
[पृष्ठम्०७५१+ २५]
14
=>
[[१। ल्यपि ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इत्यनेनात्वे रूपमेवम्।]]