| YouTube Channel

दात्रं (dAtraM)

 
Apte 1890
English
दात्रं 1 An instrument of cutting, a sort of sickle or knife.
2 Ved. A share, possession.
3 A gift, donation.
शब्दकल्पद्रुमः
Sanskrit
दात्रं,
क्ली,
(द्यति दाति वानेनेति दो अवखण्डनेदा लवने वा + “दाम्नीशसेति ।” १८२ ।इति ष्ट्रन् दादिभ्यश्छन्दसीति त्रन् वा ।)अस्त्रविशेषः इति भरतः
दा इति कास्त्याइति भाषा तत्पर्य्यायः लवित्रम् ।इत्यमरः १३
खड्गीकम् इति शब्द-रत्नावली
(यथा, महाभारते १५४ ।“सशूर्पपिटकाः सर्व्वे सदात्राङ्कुशतोमराः
”भावे त्रन् दानम् यथा, ऋग्वेदे ११६ ।“तद् वां दात्रं महिकीर्त्तेन्यम्” ।“तद्दात्रं दानम् महि महदतिगम्भीरम् ।” इतितदभाष्ये सायनः
दानकर्त्तरि, त्रि यथा, वाजसनेयसंहितायाम् १० ।“सोमस्य दात्रमसि
”)