दाण् (dAN)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaदाण् - दाने (भ्वा० पर० सक० अनि०) यच्छति ।
पदविभागः - > धातुः
कन्नडार्थः - > ದಾನ ಮಾಡು /ಕೊಡು
प्रयोगाः - > "फलं दास्यति ते यत्तु दाने परिमिहोच्यते"
उल्लेखाः - > भा० अनु० १३०-४५
धातुपाठः (Krishnacharya)
Sanskrit दा
दाण्
दाने
भ्वादिः
सकर्मकः
अनिट्
परस्मैपदी
यच्छति
धातुप्रदीपः
Sanskritदाण् दाने
- प्रयच्छति । संप्रयच्छते । दास्या मालाम् प्रणियच्छति । प्रददौ । दाता । दत्तम् ।। 934 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritदाण् दाने
- णकारो दाणश्च सा चेद् (1355) इत्यर्थः दाणो यच्छ (द्र0 7378) विप्राय यच्छति दाणश्च सा चेच्चतुर्थ्यर्थे (1355) इति तङ्- दास्या सम्प्रयच्छते घुकार्यम्- दीयते (द्र0 6466) सिज्लुक् (2477) अदात् दायादो मूलविभुजादित्वात् (द्र0 325ना0) , आतोऽनुपसर्गे कः (323) नास्ति सोपसर्गत्वात् प्रे दाज्ञः (326) अन्नप्रदः गोदः (द्र0 323) दो दद्घोः (7446) दत्तः अच उपसर्गात् तः (7447) प्रत्तम् दस्ति (63124) इति दीर्घः वीत्तम् दाधेट्सिशदसदो रुः (32159) दानशीलो दारुः 899
धातुवृत्तिः
Sanskritदाण् (अर्थः) दाने
( यच्छति ) "पाघ्रा'' इति यच्छादेशः शिति अत्रैव दाणिति विशेषणार्थोणकारः ( प्रणियच्छति ) घुतृवात् "नेर्गद'' इति णत्वम् ( ददौ दाता दास्यति यच्छतुअयच्छत् यच्छेत् ) आशिषि ( देयात् ) द्युत्वात् "एर्लिङि''इति एकारः (अदात्) "गातिस्था'' इति सिचो लुक् (प्रण्ययच्छत् प्रण्यदात् )अद्वयवायेऽपि नेर्गदादिषु णत्वमिति उक्तम् ( दित्सति ) "सनि मीमा'' इति इस्भावः "अत्र लोपः'' इत्यभ्यासस्य लोपः "सस्यार्द्धधातुके'' इति तत्वम् ( देदीयते ) घुमास्था'' इतीत्वे द्विर्वचनम् ( दादेति दादाति दात्तः ) "श्नाभ्यस्तयोः'' इत्यालोपे चर्त्वम् "पूर्वत्रासिद्धम्'' इति वा चर्त्वम् चर्त्वविर्धि प्रतीति चालोपस्य न स्थानिवत्त्वम् लोटि हौ "ध्वसोरेद्धौ'' इत्यन्त्यस्येकारे अभ्यासलोपे च देहि, ( दापयति अदीदपत् ) (दास्या मालां संप्रयच्छते) कामुकः सन् तां तस्यै ददातीत्यर्थः ( सूत्रम्) दाणश्र सा चेच्चतुर्थ्यर्थे (इति सूत्रम्) इति समुपसृष्टात्तृतीयायुक्तादस्मात्तङ्, सा चेत्तृतीया चतुर्थ्यर्थे, तृतीया "अशिष्टव्यवहारे'' इति पूर्वसूत्रे सम इति षष्ठ्यन्तमित्युक्तंतदेवात्रानुवर्तत इति प्रेण व्यवधानेऽपि तद्भवति (दास्या मालां सम्प्रयच्दते सम्प्रादित) "स्था ध्वेरिचच'' इति सिचः कित्त्वे इत्वं च, "स्वादङ्गात्'' ति सिचो लोपो ज्ञलि दाण इति सानुबन्धकनिर्देशाद्यङ्लुकि नायं तङ्विधिरि ( दास्या मालां सम्प्रददातीति भवति ) ( गां प्रयच्छतीति, गोप्रदः ) ( सूत्रम्) प्रे दाज्ञः (इति सूत्रम्) इति कर्मण्युपपदे प्रोपसृष्टास्मादणोऽपवादः कः ननु "आतश्चोपसर्गे''इति कप्रत्ययेन प्रदशब्दं कृत्वा गोशब्देन षष्ठीसमासे गोप्रद इति सिद्धंकिं सूत्रेण? उच्यते गां प्रयच्छतीति विवक्षायामणि गोप्रदाय इति स्यात् यथा प्रादन्येनोपसृष्टाद्गोसम्प्रदाय इति स मा भूदिति (गोदः) "आतोऽनुपसर्गे'' इति अनुपसृष्टत्वे कः "तं रत्नदायं जितमृत्युलोकं रात्रिंचरः कान्तिसृतोऽध्यतिष्ठत्' इति "श्याद्व्यध'' इत्याकारान्तलक्षणे णे दाधेट्सिशदसदो रः'' इति रुः (दानीयो ब्राह्मणः ) "कृत्यल्युटो विधेयः ( दारुः ) "दाधेट्सिशदसदो रः'' इति रुः ( दानीयो ब्राह्मणः ) "कृत्यल्युटोबहुलम्'' इति सम्प्रदानेऽनीचर् उपदीयत इति (उदा) "आतश्चोपसर्गे'' इत्यङ् ( देयम् ) "अचो यत्'' इति यति "ईद्यति'' इतीत्वे गुणः (दत्वात्तः दतृतवान् इति) ( सूत्रम्) दो दद् घोः (इति सूत्रम्) इति तकारादौ किति दद्भावः ( प्रत्तम् ) ( सूत्रम्) व उपसर्गातः (इति सूत्रम्) इति अजन्तादुपसर्गात्परस्य दा इत्यस्य योऽच् तस्य तकारादेशः "खरि च'' इति दकारस्य तकारः अत्राच इति द्विरावर्त्तते, तत्रैकेनोपसर्गो विशेष्यते परेण स्थानिनिर्देश्यते इत्याकारस्य स्थानित्वलाभः अन्यथा "आदेः परस्य'' इति दकारस्यैव तकारः स्यात् अन्ये तु "उपसर्गात्तः'' इति द्वितकारकोऽयमादेशो निर्दिश्यत इति अनेकाल्त्वात्सर्वादेशं कुर्वन्ति, तेषाम् "अपो भिमः'' इत्यत्रैकस्तकारोनुवर्त्यः अन्यथाद्भिरित्यादावपि सर्वादेशत्वंस्यात् (नीत्तम् सृत्तम् ) ( सूत्रम्) दस्ति (इति सूत्रम्) दा इत्यस्य यस्तकारस्तदादावुत्तरपदे इगन्तस्योपसर्गस्य दीर्घ इति दीर्घःचतर्वस्याश्रयात्सिद्धत्वात्तकारादित्वमुत्तरपदस्य येषाम् ( सूत्रम्) अच उपसर्गात्तः (इति सूत्रम्) इति द्वितकारक आदेश्स्तेषामाश्रयात् सिद्धिनपेक्ष्या
"अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि सदत्तमनुदत्तं च निदत्तमिति चेष्यते'
इति वचनादवदत्तादौ तो न भवति अत्रैव वार्त्तिके चकारावदत्तादीनामबाधः, तत्रादिकर्मणीत्यर्थात्प्रदत्तविशेषणम् अन्ये तु अवदत्तादाववादय उपसर्गप्रतिरूपका निपाता न तूपसर्गा इति तत्वं स्य नास्ति प्रसङ्ग इति चाहुः मरुद्भिर्दत्तो ( मरुत्तः ) [ मरुच्छब्दस्योपसंख्या नम्'' इति उपसर्गसंज्ञाविधानसामर्थ्यादनजन्तत्वेऽपि तत्त्वं भवतीति व्याख्यातारः ( प्रदाय ) "न ल्यपि'' इति "धुमास्था'' इतीत्त्वं निषिध्यते ल्यपः पूर्वम् "अच उपसर्गात्तः'' इति तो न भवति "अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यप् बाधत'' इति ( दानुः ) "दाभाभ्यां नुः'' इति नुप्रत्ययः ( देष्णुः ) दानशीलः गादाभ्यां चेष्णुः दायतीति शोधने गतम् 913
कृदन्तरूपमाला
Sanskrit1 {@“दाण् दाने”@} 2 3 पूर्वलिखितदाञ्धातोः, अस्यापि सर्वत्र प्रत्ययेषु रूपसाम्यात् तत्र लिखितान्येव टिप्पणान्यस्यापि संगतानीति यथासम्भवं तत्रतत्र, रूपनिष्पत्तिर्ज्ञातव्येति मत्वाऽत्र पृथङ् न लिखितानि।]] ‘दाञो दत्ते ददातीति, दाणो यच्छति, दो द्यति।
दाति दायति दाप्दैपोः, दयते रक्षणे ङितः।।’ 4 इति देवः।
दायकः-यिका, दापकः-पिका, दित्सकः-त्सिका, देदीयकः-यिका
दाता-त्री, दापयिता-त्री, दित्सिता-त्री, देदीयिता-त्री
5 प्रणियच्छन्-न्ती, 6 सम्प्रयच्छन्, 7 सम्प्रयच्छन्, दापयन्-दित्सन्-न्ती
-- दास्यन्-न्ती-ती, दापयिष्यन्-न्ती-ती, दित्सिष्यन्-न्ती-ती
-- 8 9 संयच्छमानः-सम्प्रयच्छमानः, दापयमानः, 10 11 सन्दित्समानः, देदीयमानः
12 संदास्यमानः, दापयिष्यमाणं, संदित्सिष्यमाणः, देदीयिष्यमाणः
धनदाः-धनदौ-धनदाः
-- -- दत्तम्-दत्तः-दत्तवान्, मनसादत्ता, 13 व्यात्तम्, प्रत्तम्-नीत्तम्-सूत्तम्-मरुत्तः, अवदत्तम्-प्रदत्तम्-विदत्तम्-सुदत्तम्-निदत्तम्, अनुदत्तम्-अवत्तम्-अनूत्तम्, दापितः, दित्सितः, देदीयितः-तवान्
प्रदः, दायः, 14 इष्टदः-नर्मदा, अब्दः, 15 16 दायादः, 17 विश्वा- सप्रदः, उपदाः, सुदामा-सुदीवा-गोदावरी, शर्मदाः, 18 शापदायी, साधु- दायी, कर्णदायी, मोक्षदायी, ददिवान्, दाता, दारुः, दायको 19, 20 भयदायः, कम्बलदायः, गोदायो 21, दानीयः 22, दाता, अवश्यंदायी, सहस्रंदायी, प्रदायी, यज्ञदत्तः, आदिः, अन्तर्दिः, दापः, दित्सुः, देद्यः
दातव्यम्, दापयितव्यम्, दित्सितव्यम्, देदीयितव्यम्
दानीयम्, 23 दथेलिमम्, दापनीयम्, दित्सनीयम्, देदीयनीयम्
देयम्, दाप्यम्, दित्स्यम्, देदीय्यम्
ईषद्दानः-दुर्दानः-सुदानः
-- -- -- दीयमानः, दाप्यमानः, दित्स्यमानः, देदीय्यमानः
दायः, दापः, दित्सः, देदीयः
दातुम्, दापयितुम्, दित्सितुम्, देदीयितुम्
24 दत्तिः, प्रदा, दापना, दित्सा, देदीया
प्रणिदानम्, दापनम्, दित्सनम्, देदीयनम्
दत्त्वा, दापयित्वा, दित्सित्वा, देदीयित्वा
प्रदाय, प्रदाप्य, प्रदित्स्य, प्रदेदीय्य
दायम् २, दत्त्वा २, दापम् २, दापयित्वा २, दित्सम् २, दित्सित्वा २, देदीयम् २
देदीयित्वा २।
01 (८३१)
02 (१-भ्वादिः-९३०। सक। अनि। पर।)
03 [[[अ]
04 (श्लो। ४)
05 [[३। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ--’ (७-३-७८) इत्यादिना यथासम्भवं शिति प्रत्यते परतः यच्छादेशे, ‘नेर्गदन- दपतपदघुमा--’ (८-४-१७) इत्यादिना णत्वे च रूपम्। अत्रेदमवधेयम्। ‘दाणश्च सा चेच्चतुर्थ्यर्थे’ (१-३-५५) इत्यत्र चतुर्थ्यर्थे विद्यमानायाः तृतीयाया योगे एव आत्मनेपदविधानात्, शुद्धतृतीयान्ते ‘पाणिना सम्प्रयच्छन्’ इति वाक्ये न शानच्। एवं अशिष्टव्यवहार एव निरुक्तसूत्रप्रवृत्त्या, शिष्टव्यवहारे तु ‘ब्राह्मणीभ्यः संप्रयच्छन्’ इत्यत्रापि न शानजिति ज्ञेयम्।]]
06 [पाणिना]
07 [ब्राह्मणीभ्यः]
08 [दास्या मालां]
09 [[४। ‘दाणश्च सा चेत् चतुर्थ्यर्थे’ (१-३-५५) इति शानच्। अनेनैव सूत्रेण चतुर्थ्यन्तस्य ‘दास्या’ इत्यस्य तृतीया च भवति। अत्र च, ‘अशिष्टव्यवहार इति वक्तव्यम्’ (वा। १-३-५५) इति वचनात् अशिष्टव्यवहार एवैवं भवति। अशिष्टव्यवहारः = शिष्टसम्मतो यो न भवति, सः।]]
10 [दास्या मालां]
11 [[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्ताच्छानश्।]]
12 [पृष्ठम्०७३६+ २७]
13 [[आ। ‘ध्वान्तेऽपि व्यात्तवक्त्रज्वलदनलशिखाजर्जरैर्व्यक्तकर्मा निर्मान्ती गृध्ररौद्रीं दिवमुपरि परिक्रीडते ताटकेयम्।।’ अनर्घराघवे-२-५४।]]
14 [[B। ‘तिष्ठन्निहाम्नायगमिष्टदं तमस्तौत् स्फुटेनाहृतधीः स्वरेण।।’ धा। का। २। ३३।]]
15 [गवां गोषु वा]
16 [[C। ‘स्थितः प्रास्तस्य दायादैः भ्रातुर्ज्येष्ठस्य शासने।।’ किरातार्जुनीये ११-४५।]]
17 [[ड्। ‘विश्वासप्रदवेषोऽसौ पथिप्रज्ञः समाहितः।’ भ। का। ६। ९०।]]
18 [[E। ‘कैलासशैलचलनागसि शापदायी नन्दीश्वरः स्वयमुपागत इत्यमंस्त।।’ चम्पूरामायणे-५-४७।]]
19 [व्रजति]
20 [[F। ‘पूरयन्तः समाजग्मुर्भयदाया दिशो दश।।’ भ। का। ७। ३०।]]
21 [वा व्रजति]
22 [ब्राह्मणः]
23 [[१। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति केलिमर्प्रत्ययः। केलिमर्प्र- त्ययस्य कित्त्वात् घुसंज्ञकस्यास्य धातोः ‘दो दद्घोः’ (७-४-४६) इति ‘दथू’ इत्यादेशः। तत्र च ‘तान्ते दोषो दीर्घत्वं स्यात्, दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिः, निर्दोषत्वात् थान्तो ग्राह्यः।।’ (भाष्यम् ७-४-४६) इत्युक्तत्वात् थकारान्त आदेश इति ज्ञेयम्।]]
24 [पृष्ठम्०७३७+ २७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
