| YouTube Channel

दाडिमादिचूर्ण (dADimAdicUrNa)

 
वाचस्पत्यम्
Sanskrit
दाडिमादिचूर्ण
न०
दाडिमफलत्थगादिचूर्णविशेषे “द्वेपले दाडिमादष्टौ खण्डाद् व्योषं पलत्रयम् त्रिसुगन्धिपलञ्चैव चूर्णमेकत्र कारयेत् टच्चूर्णं मात्रयाभुक्तमरोचकहरं परम् दीपनं पाचनं स्यात्पीनसज्वरकासजित्” वैद्य०