| YouTube Channel

दाक्षिण्यं (dAkSiNyaM)

 
शब्दकल्पद्रुमः
Sanskrit
दाक्षिण्यं,
क्ली,
(दक्षिणस्य भावः दक्षिण +ष्यञ् ।) अनुकूलता इति हेमचन्द्रः ।१३
(सरलता यथा, आर्य्यासप्तशत्याम् ६०१ ।“सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणी-नाम् ।वामार्द्धमेव देव्याः स्ववपुःशिल्पे निवेशयता
”परच्छन्दानुवर्त्तनम् यथा, रघुः ३१ ।“तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा
”)भावविशेषः तत्तु दक्षिणाचाररूपम् यथा, “बालान्तु वामदाक्षिण्यभावाभ्यामपि पूजयेत् ।श्मशानभैरवीं देवीमुग्रतारां तथैव
”अपि ।“ऋषीन् देवान् पितॄंश्चैव मनुष्यान् भूतसञ्चयान् ।यो यजन् पञ्चभिर्यज्ञैरृणानि परिशोधयन्
विधिव् स्नानदानाभ्यां कुर्व्वन् यद्बिधिपूजनम् ।क्रियते सरहस्यन्तु तद्दाक्षिण्यमिहोच्यते
सर्व्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः ।देवी दक्षिणा यस्मात्तस्माद्दाक्षिण्यमुच्यते
”इति कालिकापुराणे ७७ अध्यायः
दाक्षिणार्हे, त्रि इत्यमरः
(दक्षिणेभवम् दक्षिण + ष्यञ् दक्षिणभवे दक्षिण-दिक्सम्बन्धिनि यथा, आर्य्यासप्तशत्याम् ।२८२ ।“दाक्षिण्यात् म्रदिमानं दधतं सा भानुमेन-मवमंस्थाः
”)