| YouTube Channel

दसि (dasi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दंस्
मूलधातुः:
दसि
धात्वर्थः:
दर्शन-दंशनयोः
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
दंसयते
अनुबन्धादिविशेषः:
आकुस्मीयः
धातुः:
दंस्
मूलधातुः:
दसि
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
दंसयति-ते
धातुप्रदीपः
Sanskrit
दसिँ दसि दर्शन, हिंसयोः
- दंसयते दंसितम् 138
क्षीरतरङ्गिणी
Sanskrit
दसिँ दसि दर्शन, दंशनयोः
- दंसयते दंसितः भासार्थः (10197) दंसयति 145
धातुवृत्तिः
Sanskrit
दसिँ दसि (अर्थः) दर्शन, दंशनयोः
दंशनदर्शनयोरिति प्रायेण दृश्यतइति पुरुषकारे ( दंसयते, दंसति ) पूर्ववदणिचि परस्मैपदं, देसतीति रक्षणे गतमेकीयमतेन दस्यतीत्युपक्षये श्यनि, दासतइति दाने शपि ( दासः, दासी ) "दंसेष्टटनौ च'' इति टटनौ नकारस्य चाकारः टित्वात् स्त्रियां ङीप्, टटनोः स्वरे विशेषः अत्र दसेत्यनिदितमपि केचित्पठन्ति यदाह, पितेव पुत्रं दसये वचोभिरित्यत्र भट्टभास्करः दसये संगृह्णामि दंशनदर्शनयोः चौरादिक उदात्तेत्, व्यत्ययेन वृद्ध्यभाव इति ( दासीदासम् )गवाश्वप्रभृतित्त्वादेकवद्भावएकशेषाभावश्च 141
कृदन्तरूपमाला
Sanskrit
1 {@“दसि दर्शनदंशनयोः”@} 2 आकुस्मीयः।
‘दंसयेन् मोक्षणे, दस्येत् क्षये, दंसयते णिचि।।
दंशदर्शनयोः, दासेर्दाने दासति दासते।’ 3 इति देवः।
दंसकः-सिका, दिदंसयिषकः-षिका
इत्यादीनि समस्तान्यपि रूपाणि चौरादिककुंशयतिवत् 4 ज्ञेयानि।
“अत्र ‘दस--’ इत्यनिदितमपि केचित् पठन्ति।
यदाह-- ‘पितेव पुत्रं दसये वचोभिः--’ इत्यत्र भट्टभास्करः-- ‘दसये = संगृह्णामि।
‘दस दंशन- दर्शनयोः’ चौरादिक उदात्तेत्।
व्यत्ययेन वृद्ध्यभावः।’ इति।” इति माधवधातुवृत्तौ।
5 ‘दस--’ इति पाठमवलब्म्य, अस्माद्धातोर्निष्ठायाम्, ‘वा दान्त- शान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः’ 6 इत्यनेन इडभावो णिलुक् निपा- तितौ।
तेन दस्तः, दासितः इति रूपद्वयम्।
‘दंसयेन्मोक्षणे--’ इति देवश्लोकात् मोक्षणेऽपि कश्चन दंसधातुर- स्तीति प्रतीयते।
प्रकृतधातुपाठकोशेषु तु दृश्यते।
‘रक्षणे’ इत्यर्थे जसि धातोरनन्तरं क्वचिदस्योल्लेखः पुरुषकारे कृतः।
अिदित्करणाण्णिचो वैकल्पिकत्वम्।
णिजभावपक्षे-- ‘शेषात् कर्तरि--’ 7 इति परस्मैपदं शता भवति-- 8 प्रदंसन्।
‘दसि दंसनदर्शनयोः’ ‘दंसनम् = वर्मग्रहणम्।’ इति धातुकाव्ये 9।
प्रासङ्गिक्यः
01
=>
(८२६)
02
=>
(१०-चुरादिः-१६७६। सक। सेट्। आत्म।)
03
=>
(श्लो। १८६-७)
04
=>
(२३२)
05
=>
[पृष्ठम्०७२९+ २७]
06
=>
(७-२-२७)
07
=>
(१-३-७८)
08
=>
[[आ। ‘लोको हरेर्बलमचेतयमान एतद् युद्धं मृगेन्द्रशशदंशनवत् प्रदंसन्।’ धा। का। ३। ३३।]]
09
=>
(३-३३।)
1 {@“दसि भाषार्थः”@} 2 दंसकः-सिका, दिदंसयिषकः-षिका
इत्यादिकानि समस्तान्यपि रूपाणि चौरादिककुंशयतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(८२७)
02
=>
(१०-चुरादिः-१७८७। सक। अक। सेट्। उभ। आस्वदीयः।)
03
=>
(२३२)