| YouTube Channel

दश्च्यवन (dazcyavana)

 
वाचस्पत्यम्
Sanskrit
दश्च्यवन
पु०
दुःसहं च्यवनं चालनमस्य दुःसहश्च्यवनः शिवोयेन वा प्रा० ब०, दुर् + च्यु--ल्यु, “छन्दसि गत्यर्थेभ्यः”पा० युच् वा इन्द्रे अमरः “युत्कारेण दुश्च्यवनेनधृष्णुना” ऋ० १० १०२ “दुश्च्यवनेनान्यैरविचाल्येन”भा० बहुकालानन्तर स्वस्थानात् पतनात् तस्यतथात्वम् एकैकमन्वन्तरे हि चतुर्दश इन्द्रा भवन्तीतिएकसप्ततिमहायुगस्य मन्वन्तरकालस्य चतुर्दशोभागः किञ्चि-दधिकपञ्चसहस्रयुगात्मकस्तत्कालस्ततोऽनन्तरं तस्य पत-नात् तथात्वम् चतुर्दश इन्द्राश्च कल्पभेदेन भिन्ननामानःइन्द्रशब्दे ९४५ पृ० दर्शिताः च्यवनेन शिवेनाभिभूतत्वात्तस्य तथात्वम् “असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः ।सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्” भा० अनु०१६० अ० “बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत् प्रभुः”मल्लिनाथधृतपुराणम्