| YouTube Channel

दशाश्वमेध (dazAzvamedha)

 
Monier Williams Cologne
English
दशाश्वमेध
n.
the Tīrtha of the 10 horse-sacrifices, iii, 5084
RevāKh.
ccviii and cclvii,
KāśīKh.
lii
ŚambhMāh.
v
cf.
दाश्°.
Shabdartha Kaustubha
Kannada
दशाश्वमेध
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಾಶೀಕ್ಷೇತ್ರದಲ್ಲಿರುವ ಒಂದು ತೀರ್ಥ
Mahabharata
English
Daśāśvamedha, a tīrtha. § 362 (Tīrthayātrāp.): III, 83, 5084.
पुराणम्
English
दशाश्वमेध / DAŚĀŚVAMEDHA. A holy place situated in kurukṣetra. It is stated in mahābhārata, Vana Parva, Chapter 83, Stanza 14, that those who bathe in this holy place will obtain the fruits of giving a gift of thousand cows.
वाचस्पत्यम्
Sanskrit
दशाश्वमेध(धिक)
न०
काशीस्थतीर्थभेदे तनमहात्म्या-दिकथा काशी० ख० ५२ अ० उक्ता यथा“साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः ।इयाज दशभिः काश्यामश्वमेधैर्महामखैः अद्यापिहोमधूमोघैर्य्यद्व्याप्तं गगनान्तरम् तदा प्रभृति नै-वेह नीलिमानं जहात्यदः तीर्थं दशाश्वमेधाख्यंप्रथितं जगतीतले तदा प्रभृति तत्रासीद्वाराणस्यांशुभपदम् पुरा रुद्रसरो नाम तत्तीर्थं कलसोद्भव! ।दशाश्वमेधिकं पश्चाज्जातं विधिपरिग्रहात् स्वर्द्धुन्यथततः प्राप्ता भगीरथसमागमात् अतीव पुण्यवज्जातमतस्तीर्थमनुत्तमम् विधिर्दशाश्वमेधेशं लिङ्गं संस्थाप्यतत्र वै स्थितवान् गतोऽद्यापि क्वापि काशींविहाय तु राज्ञो धर्मरतेस्तस्य छिद्रं नाप चकिञ्चन अतः पुरारेः पुरतो विदित्वा किं वदेद्विधिः ।क्षेत्रप्रभावं विज्ञाय ध्यायन् विश्वेश्वरं विभुम् ब्रह्मेश्वरंच संस्थाप्य विधिस्तत्रैव संस्थितः परा तनुरियंकाशी विश्वेशस्येति निश्चितम् अस्याः संसेवना-च्छम्भुर्न कुप्यति पुरा मयि कः प्राप्य काशीं दुर्मेधाःपुनस्त्यक्तुमिहेहते अनेकजन्मजनितकर्म्मनिर्मूल-लक्षणाम् विश्वसन्तापसंहर्तुः स्थाने विश्वपतेस्तनुः ।सन्ताप्यते परं काश्याविश्लेषजमहाग्निना प्राप्यकाशीं त्यजेद्यस्तु समस्ताघौघनाशनीम् नृपशुःस परिज्ञेयो महासौख्यपराङमुखः निर्वाणलक्ष्मींयः काङ्क्षेद्भञ्जन् संसारदुर्गतिम् तेन काशी नसन्त्याज्या यद्याप्तैशादनुग्रहात् यः काशीं संपरि-त्यज्य गच्छेदन्थत्र दुर्मतिः तस्य हस्तलाद्गच्छेच्चतुर्वर्गफलोदयः निवर्हणीमघौघस्य सुपुण्यपरिवृंहि-णीम् कः प्राप्य काशीं दुर्मेधास्त्यजेन्मोक्षसुखप्रदाम् ।सत्यलोके कृतं सौख्यं क्व सौख्यं वैष्णवे पदे यत्सौख्यं लभ्यते काश्यां निमेषार्द्धनिषेवणात् वारा-णसीगुणगणान्निर्णीय द्रुहिणस्त्विति व्यावृत्यमन्दरगिरिं पुनः प्रत्यगान्मुने! स्कन्द उवाच ।मित्रावरुणयोः पुत्र महिमानं ब्रवीमि ते काश्यांदशाश्वमेधस्य सर्वतीर्थशिरोमणेः दशाश्वमेधिकं प्राप्यसर्वतीर्थोत्तमोत्तमम् यत् किञ्चित् क्रियते कर्म तद-क्षयमिहेरितम् स्नानं दानं तपो होमः स्वाध्यायोदेवतार्चनम् सन्ध्योपास्तिस्तर्पणञ्च श्राद्धं पितृसम-र्च्चनम् दशाश्वमेधिके तीर्थे सकृत् स्नात्वा नरोत्तमः ।दृष्ट्वा दशाश्वमेधेशं सर्वपापैः प्रमुच्यते ज्यैष्ठे मासिसिते पक्षे प्राप्य प्रतिपदं तिथिम् दशाश्वमेधिकेस्नात्वा मुव्यते जन्मपातकात् ज्यैष्ठशुक्लद्वितीयायांस्नात्वा रुद्रसरोवरे जन्मद्वयकृतं पापं तत्क्षणादेवमुञ्चति एवं सर्वासु तिथिषु क्रमात् स्नायान्नरोत्तमः ।आ शुक्लदशमीं यावद्दशजन्माघमुत्सृजेत् तिथिं दश-हरां प्राप्य दशजन्माघहारिणीम् दशाश्चमेधिकेस्नातीयामीं पश्येन्न यातनाम् लिङ्गं दशाश्वमेधेशंदृष्ट्वा दशहरातिथौ दशजन्मार्जितैः पापैस्त्यज्यतेनात्र संशयः स्नातो दशहारायां यः पूजयेल्लिङ्ग-सुत्तमम् भक्त्या दशाश्वमेधेशं गर्भदशा स्पृशेत् ।ज्यैष्ठे मासि सिते पक्षे पक्षं रुद्रसरे नरः कुर्वन्वैवार्षिकीं यात्रां विघ्नैरभिभूयते दशाश्वमेधावभृथैर्यत्फलं सम्यगाप्यते दशाश्वमेधे तन्नूनं स्नात्वा दशहरा-तिथौ स्वर्द्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम् ।न दुर्द्दशामवाप्नोति पुमान् पुण्यतमः क्वचित् यत्काश्यां दक्षिणद्वारमन्तर्गेहस्य कीर्त्त्यते तत्र ब्रह्मेश्वरंदृष्ट्वा ब्रह्मलोके महीयते इति ब्राह्मणवेशेन वारा-णस्यां महाधिया द्रुहिणेन स्थितं तावद्यावद्विश्वेरा-गमः दिवोदासीऽपि राजेन्द्रो वृद्धब्राह्मणरूपिणे ।ब्रह्मणे कृतयज्ञाय ब्रह्मशालामकारयत् ब्रहेम्श्वरसमीपे तु ब्रह्मशाला मनोहरा ब्रह्मा तत्रावसद्ध्योमब्रह्मथीषैर्निनादयन् ।”