| YouTube Channel

दशावतारः (dazAvatAraH)

 
शब्दकल्पद्रुमः
Sanskrit
दशावतारः,
पुं,
(दश अवतारा यस्य ।) विष्णुः ।इति त्रिकाण्डशेषः
तस्य दशावतारा यथा, --मत्स्यः कूर्म्मः वराहः नृसिंहः वामनः ५जामदग्न्यः रामः कृष्णः बुद्धः कल्की १० ।इति वराहपुराणम्
अपि ।“धर्म्मान्नारायणस्यांशः संभूतश्चाक्षुषेऽन्तरे ।यज्ञञ्च वर्त्तयामासुर्देवा वैवस्वतेऽन्तरे
प्रादुर्भावे ततस्तस्य ब्रह्मा ह्यासीत् पुरोहितः ।युगाख्यायाञ्च तुर्य्यान्तु आपन्नेषु सुरेषु वै
संभूतः समुद्रान्ते हिरण्यकशिपोर्वधे ।द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत् पुरोहितः
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति ।तृतीये वामनस्यार्थे घर्म्मेण तु पुरोधसा
एतास्तिस्रः स्मृतास्तस्य दिव्याः संभूतयो द्विजाः ।मानुष्याः सप्त येऽन्ये तु शापजास्तान्निबोधत
त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ।नष्टे धर्म्मे चतुर्थांशे मार्कण्डेयपुरःसरः
पञ्चमः पञ्चदश्यान्तु त्रेतायां सम्बभूव ।मान्धाता चक्रवर्त्ती तु तस्यौतथ्यः पुरःसरः
एकोनविंश्यां त्रेतायां सर्व्वक्षत्त्रान्तकृद्विभुः ।जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः
चतुर्व्विंशे युगे रामो वशिष्ठेन पुरोधसा ।सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः
अष्टमे द्बापरे विष्णुरष्टाविंशे पराशरात् ।वेदव्यासस्तथा जज्ञे जातूकर्णपुरःसरः
कर्त्तुं धर्म्मव्यवस्थानमसुराणां प्रणाशनम् ।बुद्धो नवमके जज्ञे तपसा पुष्करेक्षणः
देवक्यां वसुदेवेन द्बैपायनपुरःसरः ।तस्मिन्नेव युगे क्षीणे सन्ध्याशिष्टे भविष्यति
कल्की विष्णुयशा नाम पाराशर्य्यपुरःसरः ।दशमो भाव्यसंभूतो याज्ञवल्क्यपुरसरः
”इति मत्स्यपुराणम्