| YouTube Channel

दशहरा (dazaharA)

 
Spoken Sanskrit
English
दशहरा dazaharA
f.
gaGgA
दशहरा dazaharA
f.
taking away the 10 sins
दशहरा dazaharA
f.
festival in honour of the gaGgA
Monier Williams Cologne
English
दश—हरा
f.
‘taking away the 10 sins’, the Gaṅgā
a festival in honour of the Gaṅgā (on the 10th day of Jyaiṣṭha,
Vratapr.
x
now held in honour of Durgā in month Aśvin),
PSarv.
Apte Hindi
Hindi
दशहरा
स्त्री*
दशन्- हरा -
गङ्गा का विशेषण
दशहरा
स्त्री*
दशन्- हरा -
गङ्गा के सम्मान के उपलक्ष्य में ज्येष्ठ शुक्ला दशमी को मनाया जाने वाला पर्व
दशहरा
स्त्री*
दशन्- हरा -
दुर्गा के सम्मान में आश्विन शुक्ल दशमी को मनाया जाने वाला पर्व
L R Vaidya
English
daSan-harA {% f. %} 1. an epithet of the Ganges
2. a festival in honour of the Ganges on the tenth day of Jyeshtha
3. a festival in honour of Durgā on the tenth of Āśvina.
शब्दकल्पद्रुमः
Sanskrit
दशहरा,
स्त्री,
(दश अदत्तोपादानहिंसादिदश-विधानि दशजन्मकृतानि वा पापानि हरतीति ।हृ + “हरतेरनुद्यमनेऽच् ।” इत्यच् ।ततष्टाप् ।) ज्यैष्ठशुक्लदशमी यथा, ब्रह्म-पुराणब्रह्मवैवर्त्तयोः ।“ज्यैष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता ।तस्यां स्नानं प्रकुर्व्वीत दानञ्चैव विशेषतः
यां काञ्चित् सरितं प्राप्य दद्याद्दर्भैस्तिलोदकम् ।मुच्यते दशभिः पापैः सुमहापातकोपमैः
अत्र केवलदशम्यां नदीमात्रे दर्भकरणकतिल-तर्पणाङ्गकस्नानाद्दशविधपापक्षयः फलम् ।एवं दानादावपि वस्तुतस्तु वक्ष्यमाणभविष्येजाह्नवीपदश्रवणात् हेतुमन्निगदस्वरसाच्च ब्रह्म-वैवर्त्तेऽपि सरित्पदं जाह्नवीपरम् अन्यथानानाविधिः स्यात् यां काञ्चिदिति तु जाह्नवी-स्तावकम् अन्यथा कुल्यास्नानेऽपि दशविध-पापक्षयः स्यात् मन्त्रलिङ्गे जाह्नवीतिपदश्रव-णाच्च गङ्गामधिकृत्य ब्राह्म्ये ।‘शुक्लपक्षस्य दशमी ज्यैष्ठे मासि द्बिजोत्तम ! ।हरते दश पापानि तस्माद्दशहरा स्मृता
’अत्र केवलदशम्यां दशविधपापक्षयः फलम् ।भविष्ये ।‘ज्यैष्ठशुक्लदशम्यान्तु हस्तयोगेन जाह्नवी ।हरते दश पापानि तस्माद्दशहरोच्यते
’दशपापानीति दशजन्मकृतानीति विशेषणीय-माह पराशरभाष्ये यमः ।‘ज्यैष्ठे मासि सिते पक्षे दशम्यां हस्तयोगतः ।दशजन्माघहा गङ्गा दशपापहरा स्मृता
’अत्र दशजन्मकृतदशविधपापक्षयः फलम् ।‘प्राप्ते कर्म्मणि नानेको विधातुं शक्यते गुणः ।अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः
’इति न्यायेन हस्तानक्षत्रगङ्गारूपगुणद्वयविशिष्ट-दशमीविधेर्यस्मिन्नहनि तल्लाभस्तत्र स्नानम् ।उभयदिने तु तल्लाभे परदिन एव अत्रापिपूर्व्वदिने वक्ष्यमाणकुजवारलाभे तत्रापि स्नानंवारस्योभयत्रालाभात् ततश्च पूर्व्वदिने तथा-विधस्नानं कृत्वा परदिने केवलदशम्यामपि दश-विधपापक्षयकामेण स्नातव्यम् शङ्खः ।‘ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यांहस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम् ।पापान्यस्यां हरति तिथौ सा दशेत्याहुरार्य्याःपुण्यं दद्यादपि शतगुणं वाजिमेधायुतस्य
’भौमवारहस्तानक्षत्रयुक्तदशम्यां गङ्गास्नाना-द्दशविधपापक्षयशतगुणवाजिमेधायुतजन्यपुण्य-समपुण्यं फलम् राजमार्त्तण्डे वाल्मीकिः ।‘अदत्तानामुपादानं हिंसा चैवाविधानतः ।परदारोपसेवा कायिकं त्रिविधं स्मृतम्
पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः ।असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम्
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम्
एतानि दश पापानि प्रशमं यान्तु जाह्नवि ! ।स्नातस्य मम ते देवि ! जले विष्णुपदोद्भवे !
विष्णुपादार्घसम्भूते गङ्गे ! त्रिपथगामिनि ! ।धर्म्मद्रवीतिविख्याते पापं मे हर जाह्नवि !
’अत्र मन्त्रत्वेन प्रणवपूर्व्वकाण्येतानि सामान्य-स्नानमन्त्रान्ते मज्जनस्यादौ पाठ्यानि आगन्तु-कानामन्ते अभिनिवेश इति न्यायात् मन्त्रान्तेकर्म्मसन्निपात इति न्यायात् मन्त्रान्ते कर्म्मा-दीनि सन्निपातयेत् इत्यापस्तम्बीयाच्च
*
हिंसापैशुन्यादिभेदमाह कामधेनौ देवलः ।‘कायक्लेशं मनोदुःखं वधं वा प्राणिनां पुनः ।यः प्रवर्त्तयति द्बेषात् सा हिंसेति समासतः
यज्ञार्थं ब्राह्मणैर्व्वध्याः प्रशस्ता मृगपक्षिणः ।भृत्यानाञ्चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा
’यद्यपि परुषवचनमपवादः पैशुन्यमनृतं वृथा-लापो निष्ठुरवचनमिति वाङ्मयानि षट् परेषांदेशजातिकुलविद्याशिल्परूपवृत्त्याचारपरिच्छ-दशरीरकर्म्मजीविनां प्रत्यक्षदोषवचनं परुषम् ।‘यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः ।परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविधम्
चक्षुष्मन्निति लुप्ताक्षं चण्डालं ब्राह्मणेति ।प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते
*
तेषामेव परुषवचनानां परोक्षमुदाहरणमप-वादः
*
गुरुनृपतिबन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थंदोषोपाख्यानं पैशुन्यम्
*
अनृतं द्विविधं असत्यमसंवादश्चेति
*
‘देशराष्ट्रप्रसङ्गाच्च परार्थपरिकल्पनात् ।नर्म्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम्
*
गुह्याङ्गामेध्यसंज्ञानां वचनं निष्ठुरं विदुः ।यदन्यद्बा वचो नीचं स्त्रीपुंसोर्म्मिथुनाश्रयम्
*
इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणात् ।इह वासुत्र वा क्रूरमनर्थं प्रतिपद्यते
’प्रशंसया निन्दनं प्रशंसानिन्दनम् तथाप्यत्रचतुर्व्विधषड्विधयोरविरोधः समक्षत्वासमक्षत्व-भेदानादरेण पारुष्यापवादयोरैक्यात् निष्ठुरस्यपरुषान्तर्भावाच्च असम्बद्धप्रलापव्यर्थभाषणयोःपर्य्यायत्वात् नार्थान्तरम् अभिध्यानमपहर-णार्थमिति शेषः वितथे असत्यभूते वस्तुनिअभिनिवेशः पुनः पुनः सङ्कल्पः ।” इतितिथ्यादितत्त्वम्
*
अपि ।“अथ ज्यैष्ठशुक्लदशमी दशहरा तदुक्तंहेमाद्रौ ब्राह्मे ।“ज्यैष्ठे मासि सिते पक्षे दशमी हस्तसंयुता ।हरते दश पापानि तस्माद्दशहरा स्मृतेति
वाराहेऽपि ।‘दशमी शुक्लपक्षे तु ज्यैष्ठे मासि कुजेऽहनि
अवतीर्णा यतः स्वर्गाद्धस्तर्क्षे सरिद्वरा
हरते दश पापानि तस्माद्दशहरा स्मृतेति
*
स्कान्दे तु दशयोगा उक्ताः यथा, --‘ज्यैष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः ।व्यतीपाते गरानन्दे कन्याचन्द्रे वृषे रवौ
दशयोगे नरः स्नात्वा सर्व्वपापैः प्रमुच्यते
इति ।अत्र बुधभौमयोः कल्पमेदेन व्यवस्था इयञ्चयत्रैव योगबाहुल्यं सैव ग्राह्या योगाधिक्येफलाधिक्यात्
*
ज्यैष्ठे मलमासे सति तत्रैव दशहरा कार्य्या नतु शुद्धे ।‘दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु ।’इति हेमाद्रौ ऋष्यशृङ्गोक्तेः
*
तथा स्कान्दे ।‘यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं तिलोदकम् ।मुच्यते दशभिः पापैः महापातकोपमैः
’अत्र विशेषः काशीखण्डे ।‘ज्यैष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् ।दशाश्वमेधिके स्नात्वा मुच्यते सर्व्वपातकैः
एवं सर्व्वासु तिथिषु क्रमस्नायी नरोत्तमः ।आशुक्लपक्षदशमीं प्रतिजन्माघमुत्सृजेत्
’तथा ।‘लिङ्गं दशाश्वमेधेशं दृष्ट्वा दशहरातिथौ ।दशजन्मार्ज्जितैः पापैस्त्यज्यते नात्र संशयः
’तथा भविष्योत्तरकाशीखण्डयोः ।‘निशायां जागरं कृत्वा समुपोष्य भक्तितः ।पुष्पैर्गन्धैश्च नैवेद्यैः फलैश्च दशसङ्ख्यया
तथा दीपैश्च ताम्बूलैः पूजयेत् श्रद्धयान्वितः ।स्नात्वा भक्त्या तु जाह्नव्यां दशकृत्वो विधानतः
दशप्रसृतिकृष्णांश्च तिलान् सर्पिश्च वै जले ।शक्तुपिण्डान् गुडपिण्डान् दद्याच्च दशसङ्ख्यया
ततो गङ्गातटे रम्ये हेम्ना रूप्येण वा तथा ।गङ्गायाः प्रतिमां कृत्वा वक्ष्यमाणस्वरूपिणीम्
संस्थाप्य पूजयेद्देवीं तदलाभे मृदापि वा ।अथ तत्राप्यशक्तश्चेत् लिखेत् पिष्टेन वै भुवि
वक्ष्यमाणेन मन्त्रेण कुर्य्यात् पूजां विशेषतः ।नारायणं महेशञ्च ब्रह्माणं भास्करं तथा
भगीरथञ्च नृपतिं हिमवन्तं नगेश्वरम् ।गन्धपुष्पादिभिः सम्यक् यथाशक्ति प्रपूजयेत्
दशप्रस्थान् तिलान् दद्यात् दशविप्रेभ्य एव ।दशप्रस्थान् यवान् दद्यात् दशसङ्ख्यगवीस्तथा
’प्रस्थाः षोडशपलानि पलन्तु मुष्टिमात्रं पस्वंस्मृतमिति महार्णवे उक्तम् ।‘मत्स्यकच्छपमण्डूकमकरादिजलेचरान् ।कारयित्वा यथाशक्ति स्वर्णेन रजतेन वा
तदलाभे पिष्टमयानभ्यर्च्च्य कुसुमादिभिः ।गङ्गायां प्रक्षिपेदाज्यदीपांश्चैव प्रवाहयेत्
पुष्पाद्यैः पूजयेद् गङ्गां मन्त्रेणानेन भक्तितः ।ओँ नमः शिवायै नारायण्यैदशहरायै गङ्गायै नमो नमः ।इति मन्त्रन्तु यो मर्त्यो दिने तस्मिन् दिवानिशम् ।जपेत् पञ्चसहस्राणि दशधर्म्मफलं लभेत्
*
काशीखण्डे त्वन्यो मन्त्र उक्तः ।‘नमः शिवायै प्रथमं नारायण्यै पदं ततः ।दशहरायै पदमिति गङ्गायै मन्त्र एष वै
स्वाहान्तः प्रणवादिश्च भवेद्यिंशाक्षरो मनुः ।पूजा दानं जपो होमस्तेनैव मनुना स्मृतः
इतिअत्र गङ्गास्तोत्रपाठमपि दशवारं कुर्य्यात् ।तदुक्तं भविष्ये ।‘तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः ।यः पठेत् दशकृत्वस्तु दरिद्रो वापि वाक्षमः
सोऽपि तत्फलमाप्नोति गङ्गां संपूज्य यत्नतः ।’ इतिस्तोत्रञ्च प्रतिपदादिदशमीपर्य्यन्तदिनवृद्धिसंङ्ख्ययापठनीयमिति शिष्टाः
अत्र सर्व्वोऽपि विस्तरःस्तोत्रादिश्च भट्टकृतत्रिस्थलीसेतोरवधेयः ।विस्तरभीतेस्तु लिख्यते
*
एवं कुर्व्वतःफलमुक्तं काशीखण्डे ।‘एवं कृत्वा विधानेन वित्तशाठ्यविवर्ज्जितः ।उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते
सर्व्वान् कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते
’इति ।अस्यां सेतुबन्धरामेश्वरस्य प्रतिष्ठादिनत्वात् विशे-षेण पूजा कार्य्या तदुक्तं स्कान्दे सेतुमाहात्म्ये ।‘ज्यैष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः ।गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ
दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् ।रामो वै स्थापयामास शिवलिङ्गमनुत्तममिति
”इति निर्णयसिन्धुद्वितीयपरिच्छेदे संवत्सर-कृत्यम्
किञ्च ।“अद्य हस्ते तु नक्षत्रे दशम्यां ज्यैष्ठके सिते ।दशपापहरायाञ्च अदत्तादानकल्मषम्
विरुद्धाचरणं हिंसा परदारोपसेवनम् ।पारुष्यानृतपैशुन्यमसम्बद्धञ्च भाषणम्
परद्रव्याभिध्यानञ्च मनसानिष्टचिन्तनम् ।एतद्दशाघघाताय गङ्गास्नानं करोम्यहम्
”इति गारुडे २१५ अध्यायः
*
अपरञ्च ।“ज्यैष्ठे दशहरायान्तु विष्णोरिष्टिं नृप ! शृणु ।वेन वा विधिना कार्य्या सेष्टिर्व्विष्णोर्नृपैः सदा
प्रत्यब्दं पार्थिवः कुर्य्यात् प्रतिमां काञ्चनीं हरेः ।अन्यतेजोमयीं वापि दारवीं वा शिलामयीम्
प्रतिष्ठां विधिवत्तस्याः कुर्य्याद्बिप्रः पुरोहितः ।तां संस्थाप्य सुरागारे स्वयं वा यत्नतः कृते
वासुदेवस्य वीजेन पूर्व्वोक्तविधिना तथा ।सर्व्वोपचारैर्भक्त्या तु वासुदेवं प्रपूजयेत्
पूजान्ते संस्कृते वह्नौ कुण्डमध्ये स्थितो द्विजः ।आज्यैः सहस्रं जुहुयादाहुतीनां हरेः कृते
संपूज्य वामुदेवन्तु होमं कृत्वा ततो द्विजः ।नृपस्यानुमते तान्तु प्रतिमां मण्डलं नयेत्
प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना ।प्राणप्रतिष्ठां कुर्व्वीत तस्यां देवस्य वै हरेः
कृतायान्तु प्रतिष्ठायां प्राणानां नृपसत्तम ! ।विष्णोः प्राणास्तां प्रतिमामायान्ति नियतं स्वयम्
प्राणेष्वथागतेषु स्याद्देवत्वं नियतं भवेत् ।अकृतायां प्रतिष्टायां प्राणानां प्रतिमासु ।यथा पूर्व्वं तथा भावः स्वर्णादीनां विष्णुता
अन्येषामपि देवानां प्रतिमास्वपि पार्थिव ! ।प्राणप्रतिष्टा कर्त्तव्या तस्या देवत्वसिद्धये
सुवर्णस्तु सुवर्णं स्यात् शिला दारु तथा शिला ।अन्यथ शुद्धरूपं स्यात् प्राणस्थानमृते सदा
वासुदेवस्य वीजेन तद्बिष्णोरित्यनेन ।तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेद्धरेः
तथैव हृदयेऽङ्गुष्टं दत्त्वा शश्वच्च मन्त्रवित् ।एभिर्म्मन्त्रैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत्
अस्मै प्राणाः प्रतिष्ठन्तु अस्मै प्राणाः क्षरन्तु ।अस्मै देवत्वसङ्ख्यायै स्वाहेति यजुरुच्चरन्
अङ्गमन्त्रैरङ्गिमन्त्रैर्व्वैदिकैरित्यनेन ।प्राणप्रतिष्ठां सर्व्वत्र प्रतिमासु समाचरेत्
प्रतिमापूजने कुर्य्यादात्मन्यपि मन्त्रवित् ।प्राणप्रतिष्ठां प्रथमं पूजाभागविशुद्धये
अस्मित् प्राणप्रतिष्ठान्तु प्रतिमापूजनादृते ।न क्वचित्तु बुधः कुर्य्यात् कृत्वा मृत्युमवाप्नुयात्
विष्णोरिष्टिमिमां कृत्वा दशम्यां पार्थिवोत्तमः ।तस्यामेव तु पूर्णायां प्रतिमां स्थापयेत्ततः
एवं दशहरायान्तु कृत्वेष्टिं पार्थिवो हरेः ।सर्व्वान् कामानवाप्नोति निर्व्विघ्नोऽपि सजायते
”इति कालिकापुराणे ८९ अध्यायः
वाचस्पत्यम्
Sanskrit
दशहरा स्त्री दश पापानि हरति हृ--ट गङ्गाजन्मदिनेज्यैष्ठशुक्लदशम्याम् ।“ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां हस्तेशैलान्निरगमदियं जाह्नवी मर्त्यलोकम् पापान्यस्यांहरति तिथौ सा दशेत्याहुरार्य्याः पुण्यं दद्यादपिशतगुणं वाजिमेधायुतस्येति” शङ्खः अपि “अदत्ता-नामुपादानं हिंसा चैव विधानतः परदारोपसेवा चकायिकं त्रिविधं स्मृतम् पारुष्यमनृतं चैव पैशुन्य-ञ्चापि सर्वशः असम्बद्धप्रलापश्च वाङ्मयं स्यात् चतु-र्विधम् परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् वित-थाभिनिवेशश्च मानसं त्रिविधं स्मृतम् एतानि दश-पापानि हर त्वं मम जाह्नवि! दशपापहरा यस्मात्तस्माद्दशहरा स्मृता “ज्येष्ठे मासि सिते पक्षे दशम्यांबुधहस्तयोः गरानन्दे व्यतीपाते कन्याचन्द्रे वृषेरवौ दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते” इतिस्कन्दपुराणे काशीखण्डे अत्र कुजबुधयोः कल्पभेदेनव्यवस्था ज्ञेया सेतुबन्धरामेश्वरयोः प्रतिष्ठादिनेयथोक्तं स्कान्दे सेतुमाहात्म्ये “ज्यैष्ठे मासि सितेपक्षे दशम्यां बुधहस्तयोः गरानन्दे व्यतीपाते कन्या-चन्द्रे वृषे रवौ दशयोगे सेतुमध्ये लिङ्गरूपधरं हरम् ।रामो वै स्थापयामास शिवलिङ्गमनुत्तमम् अता-ऽस्यां तु विशेषेण पूजा कार्य्या हितार्थिभिः” अत्रस्नानाङ्कसङ्कल्प उक्तः गारुडे २१५ अ० यथा “अद्यहस्ते तु नक्षत्रे दशम्यां ज्यैष्ठके सिते दशपापहरा-याञ्च अदत्तादानकल्मषम् विरुद्धाचरणं हिंसा पर-दारोपसेवनम् पारुष्याहृतपैशुन्यमसम्बद्धं प्रभाषणम् ।परद्रव्याभिध्यानञ्च मनसानिष्टचिन्तनम् एतद्दशाघघा-ताय गङ्गास्नानंनं करोम्यहमिति”