| YouTube Channel

दशसप्ता (dazasaptA)

 
Monier Williams Cologne
English
दश—सप्ता
f.
N.
of a Viṣṭuti of the Saptadaśa-stoma,
TāṇḍyaBr.
ii, 7.
वाचस्पत्यम्
Sanskrit
दशसप्ता स्त्री दश सप्त चास्यां विष्टुतौ साम्नोविन्यासभेदेन विष्टुतिभेदे तत्प्रकारादिकं ता० ब्रा०भाष्ये दर्शितं यथा ।“अथ सप्तदशस्तोमस्य दशसप्ताख्या विष्टुतिः साद्विःप्रकारा सप्तास्थितेत्यपरा सा द्विःप्रकारा ।ततंः पञ्चभ्यस्तिसृभ्यो नवभ्यश्चेत्येकः तत उद्यतीततो भस्त्रेति दशसप्तसप्तास्थितयोर्मेदेन सहेत्येवं सप्तविष्टुतयः तद्याद्यां दशसप्ताख्यां विष्टुतिं दर्शयति” भा० ।“पञ्चभ्यो हिङ्करोति तिसृभिः एकया एकया, पञ्चभ्यो हिङ्करोति एकया तिसृभिः एकवा, सप्तभ्यो हिङ्करोति एकया तिसृभिः तिसृभि-र्दशसप्ता सप्तदशस्य विष्टुतिः” ता० ब्रा० “स्पष्टार्थः ।आदितो द्वाभ्यां पञ्चर्च्चाभ्यां हिङ्करोति पर्य्यायाभ्यां दश ।उत्तरे सप्तेति दश सप्त चास्यां विष्टुताविति दशसप्तेयंसप्तदशस्तोमस्य विष्णुतिः” तदुत्तरत्र खण्डादौउद्यतो सप्तास्थिताभस्त्राणां प्रकारो वर्णितस्तत्रैव दृश्यः