| YouTube Channel

दशरथः (dazarathaH)

 
Apte Hindi
Hindi
दशरथः
पुं*
दशन्- रथः -
"अयोध्या का एक प्रसिद्ध राजा, अज का पुत्र, राम और उनके तीन भाइयों का पिता"
Wordnet
Sanskrit
Synonyms:
दशरथः
noun
अयोध्यायाः रघुवंशीयः राजा यः रामस्य पिता आसीत्।
"दशरथस्य चतुर्षु पुत्रेषु रामः अग्रजः आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
दशरथः,
पुं,
(दशसु दिक्षु गतो रथो यस्य ।)इक्षाकुवंशीयराजविशेषः अयोध्याधिपतिः ।अस्योत्पत्तिर्यथा, --सौराष्ट्रदेशोद्भवभिक्षुनामद्बिजपत्नी कलहा भर्त्त्रासह सर्व्वदा कलहात् मृता प्रेतत्वं गता साकदाचित भ्रमन्ती धर्म्मदत्तसंज्ञकं द्बिजं दृष्ट्वातत्समीपमागत्य तद्धस्तस्थतुलसीवारिसंसर्गात्पापभावं परित्यज्य तमुवाच हे द्विज ! मयि कृपांकुरु अहं कथं मुक्तिं प्रयास्यामि धर्म्मदत्त-स्तामुवाच तीर्थदानव्रतादिभिः पापानि नश्यन्ति ।तेषु ते नाधिकारः तस्मादाजन्मपर्य्यन्तं यन्मयाकार्त्तिकव्रतं कृतं तस्यार्द्धं ददामि इत्युक्त्वा तुलसीमिश्रितजलेन तामसेचयत् द्वादशाक्षरमन्त्र-मश्रावयच्च ततः सा दिव्यरूपा अभवत् तदा सादिव्यं विमानमपश्यत् विष्णुगणपुण्यशीलसुशी-लाभ्यां सा तद्विमाने आरोहिता धर्म्मदत्तस्त-द्विमानं तौ गणौ दृष्ट्वा अतिविस्मयेन भूमौपपात पुण्यशीलसुशीलौ तमुत्थाप्य प्रशस्यऊचतुः त्वमेतज्जन्मान्ते भार्य्याभ्यां सह वैकुण्ठंयास्यसि तत्र बहुसहस्रवत्सराणि स्थित्वापुण्यक्षये सूर्य्यवंशोद्भवदशरथनामा राजा भवि-ष्यसि अनया कलहया सह भार्य्यात्रययुतं त्वांविष्णुः पितृत्वेन स्वीकरिष्यति इति पाद्मेउत्तरखण्डम्