| YouTube Channel

दशयोगभङ्गः (dazayogabhaGgaH)

 
शब्दकल्पद्रुमः
Sanskrit
दशयोगभङ्गः,
पुं,
(दशयोगस्य भङ्गः ।) संस्कार-कर्म्मणि नक्षत्रबेधविशेषः अयं खर्ज्जुरवेधः ।यथा, --“तिथ्यङ्गवेदैकदशोनविंश-भैकादशाष्टादशविंशसंख्याः ।इष्टोडना सूर्य्ययुतोडना चयोगादमूश्चेद्दशयोगभङ्गः
अस्यार्थः कर्म्मकालीनविवाहाद्युक्तनक्षत्राङ्क-रविभुक्तनक्षत्राङ्कयोर्योगे यदि एते अङ्काः स्युःतदा दशयोगभङ्गः स्यात्
अस्य प्रतिप्रसवोयथा, --आद्यपादे स्थिते सूर्य्ये तुरीयांशं विवर्ज्जयेत् ।द्वितीयस्थे तृतीयञ्च विपरीतमतोऽन्यथा
”इति ज्योतिस्तत्त्वम्