| YouTube Channel

दशमूलघृत (dazamUlaghRta)

 
वाचस्पत्यम्
Sanskrit
दशमूलघृत
न०
चक्रदत्तोक्ते ज्वरध्ने घृतभेदे ।“दशमूलीरसे सर्पिः सक्षीरे पञ्चकोलकैः सक्षारै-र्हन्ति तत्पूर्वं ज्वरकासाग्निनन्दताः वातपित्तकफ-व्याधीन् प्लीहानं चापि पाण्डुताम्” तत्रोक्ते कास-घ्ने घृतभेदे “दशमूलीकषायेण भार्गीकल्कं पचेत्घृतम् दक्षतित्तिरिनिर्यूहे तत्परं वातकासनुत्”