| YouTube Channel

दशमूत्रकं (dazamUtrakaM)

 
शब्दकल्पद्रुमः
Sanskrit
दशमूत्रकं,
क्ली,
(दशानां मूत्रकानां समाहारः ।)हस्तिमहिषोष्ट्रगवाजमेषाश्वगर्द्दभमानुषमानु-षीणां दशानां मूत्रम् इति राजनिर्घण्टः
(एतद्गुणा यथा, सुशुते ४५ ।“गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णानिकटून्युष्णानि तिक्तानि लवणानुरसानि लघूनिशोधनानि कफवातकृमिमेदोविषगुल्मार्शौदर-कुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानिदीपनानि सामान्यतः भवन्ति चात्र ।“तत् सर्वं कटुतीक्ष्णोष्णं लवणानुरसं लघु ।शोधनं कफवातघ्नं कृमिमेदोविषापहम्
अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् ।पाण्डरोगहरं भेदि हृद्यं दोपनपाचनम्
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् ।लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित्
शूलगुल्मोदरानाहविरेकास्थापनादिषु ।मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत्
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु ।आनाहशोफगुल्मेषु पाण्डुरोगे माहिषम्
कासश्बासापहं शोषकामलापाण्डु रोगनुत् ।कटुतिक्तान्वितं छागमीषन्मारुतकोपनम्
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् ।सक्षारन्तिक्तकटुकमुष्णं वातघ्नमाविकम्
दीपनं कटुतीक्ष्णोष्णं वातचेतोविकारनुत् ।आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् ।तीक्ष्णं क्षारे किलासे नागं मूत्रं प्रयोजयेत् ।गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् ।दीपनं गार्दभं मूत्रं कृमिवातकफापहम्
शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् ।अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम्
”)