| YouTube Channel

दशपुरुष (dazapuruSa)

 
Schmidt Nachtrage zum Sanskrit Worterbuch
German
°दशपुरुष Adj. zehn Mann fassend, Kauṭ. 139, 4 v.u.
वाचस्पत्यम्
Sanskrit
दशपुरुष
पु०
दशगुणितः पुरुषः स्वजनकावधिपुरुषदशके ।“यो मातृतः पितृतश्च दशपुरुषं समनुष्ठिता विद्यातपोभ्यांपुण्यैश्च कर्मभिर्येपामुभयतो नाब्राह्मण्यं निनयेयुः”आश्व० श्रौ० २० “येषां मातृतः पितृतश्चोभयतो येदशपूर्वाः पुरुषाः ते विद्यया तपसा पुण्यैः प्रति-षिद्धवर्जितैश्च युक्ताः सम्यगनुष्ठितवन्तो वैदिकं पन्था-नम्, अपि अव्राह्मण्यं निनयेयुः निश्चयेनाब्राह्मण्यं गमयेयुः अब्राह्मण्यगमनं नाम शूद्राया-मपत्योत्पादनमित्युच्यते विद्या नाम षडङ्गो वेदः, तद-र्थज्ञानश्च तपो नाम श्रौतस्मार्त्तकर्मानुष्ठानम् पुण्य-कर्म नाम प्रतिषिद्धवर्जनम् तानेवंविधान् पुरुषाननुप्रस-र्पयेयुः, एतदुक्तं भवति मातृतः पितृतश्चोभयतः पूर्वंदश ये पुरुषाः ते षडङ्गवेदाध्ययनेन तदर्थज्ञानेन चश्रौतस्मार्त्तकर्मानुष्ठानेन प्रतिषिद्धवर्जितेन युक्ताःशूद्रायामपत्योत्पादनं चाकृतवन्तो ये पुरुषा तानेवं-विधान् पुरुषाननुप्रसर्पयेयुः दशपुरुषमिति दशपुरुषाइत्यर्थः नारा० “मातापित्रोर्यश्च वश्यः श्रोत्रियोदशपूरुषः” भा० अनु० ९० अ० “दशपुरुषविख्यात-श्रोत्रियाणां महाकुलम्” स्मृतिः