| YouTube Channel

दशपुरं (dazapuraM)

 
शब्दकल्पद्रुमः
Sanskrit
दशपुरं,
क्ली,
(दश दिशः पिपर्त्तीति पॄ +कः ।) कैवर्त्तीमुस्तकम् इत्यमरः ।१३१
(दश पुरो यत्र “ऋक्पूरब्धूःपथामानक्षे ।” ७४ इति अः ।)देशभेदः मालवदेशैकखण्डः पुरभेदः ।इति मेदिनी रे, २६६
(यथा, मेघदूते ।४९ ।“कुन्दक्षेपानुगमधुकरश्रीयुषामात्मविम्बंपात्रीकुर्व्वन् दशपुरबधूनेत्रकौतूहलानाम्
”)