| YouTube Channel

दलं (dalaM)

 
शब्दकल्पद्रुमः
Sanskrit
दलं,
क्ली,
(दलतीति दल + अच् ।) उत्सेधः ।खण्डम् (यथा, मनुः २९९ ।“भार्य्या पुत्त्रश्च दासश्च शिष्यो भ्राता सोदरः ।प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा
”)शस्त्रीच्छदः अपद्रव्यम् पत्रम् इति मेदिनी ।ले, २६
(यथा, आर्य्यासप्तशत्याम् ६९२ ।“हृत्वा तटिनि ! तरङ्गैर्भ्रमितश्चक्रेषु नाशयेनिहितः ।फलदलवल्कलरहितस्त्वयान्तरीक्षे तरुस्त्यक्तः
”)घनम् इति शब्दरत्नावली
तमालपत्रम् ।इति राजनिर्घण्टः
अर्द्धम् इति लीलावती
(पुं, इक्ष्वाकुकुलोत्पन्नपरिक्षिन्नामराज्ञः पुत्त्रः ।स मण्डूकराजकन्यासम्भूतः यथा, महा-भारते १९२ ४४ ।“अथ कस्यचित् कालस्य तस्यां कुमारास्त्रय-स्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति
”वृक्षविशेषः तत्पर्य्याया यथा, --“वातपोतः पलाशः स्याद्वानप्रस्थश्च किंशुकः ।राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः
”इति वैद्यकरत्नमालायाम्
)