| YouTube Channel

दर्शनीयः (darzanIyaH)

 
शब्दकल्पद्रुमः
Sanskrit
दर्शनीयः, त्रि, (दृश्यते इति दृश् + अनीयर् ।)मनोज्ञः इति धरणिः
(यथा, महाभारते ।११ १५ ३०“अङ्गुल्यग्राणि ददृशे देवी पटान्तरेण सा ।ततः कुनखीभूतो दर्शनीयनखो नृपः
”)दर्शनयोग्यः इति व्याकरणम्
(यथा, पञ्च-तन्त्रे ४० ।“शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्त्रक ! ।यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र हन्यते
”)