दर्शनप्रतिभू (darzanapratibhU)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English दर्शनप्रतिभू darzanapratibhU bail for appearance
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiदर्शनप्रतिभूः
दर्शन-प्रतिभूः -
उपस्थित होने के लिए जमानत या जामिन
Shabdartha Kaustubha
Kannadaदर्शनप्रतिभू
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜಾಮೀನುದಾರ /ಅವಶ್ಯವಾದಾಗ ಆಪಾದಿತನನ್ನು ತಂದು ತೋರಿಸುವ ಹೊಣೆಯನ್ನು ಹೊತ್ತಿರುವವನು
वाचस्पत्यम्
Sanskritदर्शनप्रतिभू दर्शनाय प्रतिभूः । प्रतिभूभेदे “दर्शने प्राति-माव्ये च विधिः स्यात् पूर्वचोदितः” “यो यस्य प्रतिभूस्तिष्ठेत्दर्शनायेह मानवः । अदर्शयन् स तं तस्य प्रयच्छेत् स्वध-नादृणम्” मनुः । वीरमि० विस्तरेण तद्विधिरुक्तो यथा“अथ प्रतिभूः तत्र प्रातिभाव्यं नाम विश्वासार्थंपुरुषान्तरेण सह समयः । तद्भेदानाह वृहस्पतिः“दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा । चतुःप्रकारःप्रतिभूः शास्त्रे दृष्टो मनीषिभिः” । प्रत्ययोविश्वासः दानम् ऋणापाकरणार्थमर्थार्पणम् । ऋणिद्रव्या-र्पणम् ऋणिनो यद्द्रव्यं गृहोपकरणादि तदर्पणम् ।चतुःप्रकाराणां प्रतिभुवां प्रातिभाव्याङ्गीकारप्रकारंदर्शयति स एव “आहैको दर्शयामीति साधुरित्यपरो-ऽब्रवीत् । दाताहमेतद्द्रविणमर्पयाम्यपरोऽब्रवीत्” ।एको दर्शनप्रतिभरहमेनं मकायमप्रवृनं दर्शयि-व्यामीत्याह । अपरः प्रत्ययप्रतिभूरेषः साधुर्न त्वां प्रता-रयिष्यति यतोऽयं श्रेत्रियपुत्रोऽस्य सर्वशस्यसम्पन्नोग्रामोऽस्ति मत्प्रत्ययेनास्य द्रव्यं देहीति ब्रवीति ।दानप्रतिभूर्यद्ययं न ददाति तदा सवृद्धिकमृणमहदातेति । अपरः ऋणिद्रव्यार्पणप्रतिभूयद्ययं न ददातितदाहमेतदीयगृहोपकरणादिकमर्षयिष्यामीति कथय-तीत्यर्थः । दर्शनप्रतिभुवा यदा धनिकस्य धारणिकदर्शना-पेक्षा तदैव स दर्शनीयः इत्याह कात्यायनः “दर्शनप्रति-भूर्यस्तु देशे काले च दर्शयेत्” । यस्मिन् देशे कालेच धनिकस्तद्दर्शनमपेक्षते तत्रैव दर्शयेत् अधमर्णमितिशेषः । दर्शिते च तस्मिन् धनिकेन प्रातिमाव्यात् स मोक्तव्य इत्युत्तरार्द्धेनाह स एव । “यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत्” । एवं प्रत्ययादिप्रतिभुवोऽपितदविसंवादे मोक्तव्याः, अन्यथा धारणिकन्देयं धनंदाप्या इत्याहतुः कात्यायनवृहस्पती “यो यस्य प्रतिभू-स्तिष्ठेद्दर्शनायेह मानवः । अदर्शयन् स तन्तस्मै प्रयच्छेत्स्वधनादृणम् । आद्यौ तु वितथे दाप्यौ तत्कालावेदि-तं धनम् । उत्तरौ तु विसंवादे तौ विना तत्सुतौतथा” । यत्तु योगीश्वरेण प्रतिभुवान्त्रैविध्यमेवोक्तम ।“दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते” तद्दानार्पण-योरनतिभेदाभिप्रायेण । “आद्यौ तु वितथे दाप्यावितरस्य सुता अपि” । वितथे दर्शनप्रत्यये वि-संवादे इतरस्य सुता न दाप्याः । सुता इत्यभिधानान्नपौत्रा इत्युक्तम्भवति दानं स्वधनार्पणं धनिकाय । अर्प-णन्तु धारणिकधनमानीय तस्य अर्पणं धनिकस्य स्व-धनलाभे उभयतो न विशेषः अतएव सूक्ष्मभेदविवक्षयापञ्चप्रकारा अपि प्रतिभुवो हारीतेनोक्ताः । “अमयेप्रत्यये दाने उपस्थाने प्रदर्शने । पञ्चस्वेषु प्रकारेषुग्राह्यो हि प्रतिभूर्वुधैः” अभयमुपद्रववारणम् । उप-स्थानमत्र धारणिकधनस्य धनिकायानीयार्पणं न दर्शनतस्य पृथङ्निर्देशात् पञ्चस्वित्यनन्वयाच्च । व्यासस्तसप्तभिर्विषयैः सप्तप्रकारं प्रतिभुवमाह । “लेख्ये कृतेच दिव्ये वा दानप्रत्ययदर्शने । गृहीतबन्धोपस्थानेऋणिद्रव्यार्पणे तथा” । प्रतिभूर्ग्राह्य इत्यत्र प्रकृतम् ।कात्यायनोऽपि “दानोपस्थानवादेषु विश्वासशपथाय च ।लग्नकङ्कारयेदेवं यथायोग्यं विपर्यये” । वादोविवादस्तत्रप्रतिभूग्रहणम् । “उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य-निर्णय” इति । योगीश्वरेणाप्युक्तन्तच्च प्रागेव व्याख्या-तम् । दर्शनप्रत्ययदानेषु यथायथं सर्वेषामन्तर्भावसम्भवइति परमार्थः । दर्शनप्रतिभुवे नष्टधारणिकान्वेषणायकालावधिर्देय इत्याह । वृहस्पतिः “नष्टस्यान्वेषणेकालं दद्यात् प्रतिभुवे धनी । देशानुरूपतः पक्षं मासंञ्चार्द्धमथापि वा” । सार्द्धमासमिति परमावधिः । तथाच कात्यायनः “नष्टस्मान्वेषणार्थन्तु देयं पक्षत्रयं परम् ।यद्यश्चो दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् । काले प्रतीतेप्रतिभूर्यदि तं नैव दर्शयेत् । स तमर्थं प्रदाप्यः स्यात्प्रेते चैष विधिः स्मृतः” । परं परमावधिभूतम् ।प्रतीतेऽन्वेषणाय परिकल्पिते, प्रेते क्षैष विधिरितिधारणिके मृते प्रतिभूस्तमर्थं प्रदाप्य इति विधिः का-लावधिविधेस्तत्रान्ययवाधात् । एतदपि दैवराज-कृतप्रतिबन्धाभावे बोध्यम् । अतएव कात्यायनः “दर्श-नप्रतिभूर्यत्र देशे काले न दर्शयेत् । निबन्धमाबहेत्तत्रदैवराजकृतादृते” । निबन्धमृणम् । दैवकृतो दीर्घरोग-मरणादिरूप ऋणदानप्रतिबन्धः । राजकृतो बन्धनासेध-दण्डादिरूपः । प्रतिभूभेदेन स्पष्टमाह नारदः “ऋणि-ष्वप्रतिकुर्वत्सु प्रत्यये वाथ हापिते । प्रतिभूस्तदृणं दद्या-दनुपस्थापयंस्तथेति” । ऋणिष्यधर्मर्णेष्वप्रतिकुर्वत्स्वसाध्येषुनिर्डनत्वादिना ऋणमप्रत्यर्पयत्स्विति दानप्रतिभूविष-यम् । पत्यये विश्वासे हापिते विसंवादिते इतिप्रत्ययप्रतिभूविषयम् । अनुपस्थापयन्नृणिनमदर्शयन्नृ-णिनः सकाशादाधिमृणं पर्याप्तं तद्धनं वोत्तमर्णायान-र्पयन्निति दर्शनद्रव्यार्पणप्रतिभूविषयमिति विवेकः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
