दर्शनं (darzanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiदृष्टि, दर्शन
शब्दकल्पद्रुमः
Sanskritदर्शनं, (दृश्यतेऽनेनेति । दृश् + करणे ल्युट् ।)नयनम् । स्वप्नः । बुद्धिः । धर्म्मः । उपलब्धिः ।दर्पणः । (दृश्यते यथार्थतत्त्वमनेनेति ।)शास्त्रम् । इति मेदिनी । ने, ७३ ॥
शास्त्रन्तुषड्विधम् । वैशेषिकन्यायमीमांसासाङ्ख्यपात-ञ्जलवेदान्तरूपम् । एतानि तत्त्वज्ञानार्थं वेदान्विचार्य्य कणादगोतमजैमिनिकपिलपतञ्जलि-वेदव्यासाख्यैर्मुनिषट्कैः कृतानि ॥
इज्या । इत्य-जयः ॥
वर्णः । दति त्रिकाण्डशेषः ॥
चाक्षुष-ज्ञानम् । देखा इति भाषा । तत्पर्य्यायः ।निर्व्वर्णनम् २ निध्यानम् ३ आलोकनम् ४ ईक्ष-णम् ५ । इत्यमरः । ३ । २ । ३१ ॥
निभा-लनम् ६ । इति जटाधरः ॥
* ॥
(यथा, भाग-वते । १ । ६ । ३४ ।“आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥
”)पुण्यदर्शनानि यथा, --नन्द उवाच ।“येषाञ्च दर्शने पुण्यं पापञ्च यस्य दर्शने ।तत् सर्व्वं वद सर्व्वेश ! श्रोतुं कौतूहलं हि मे ॥
श्रीभगवानुवाच ।सुब्राह्मणानां तीर्थानां वैष्णवानाञ्च दर्शने ।देवताप्रतिमादर्शात् तीर्थस्नायी भवेन्नरः ॥
सूर्य्यस्य दर्शने भक्त्या सतीनां दर्शने तथा ।सन्न्यासिनां यतीनाञ्च तथैव ब्रह्मचारिणाम् ॥
भक्त्या गवाञ्च वह्नीनां गुरूणाञ्च विशेषतः ।गजेन्द्राणाञ्च सिंहानां श्वेताश्वानान्तथैव च ॥
शुकानाञ्च पिकानाञ्च खञ्जनानान्तथैव च ।हंसानाञ्च मयूराणां चासानां शङ्खपक्षिणाम् ।वत्सप्रयुक्तधेनूनामश्वत्थानां तथैव च ।पतिपुत्त्रवतीनाञ्च नराणां तीर्थयायिनाम् ॥
प्रदीपानां सुवर्णानां मणीनाञ्च विशेषतः ।मुक्तानां हीरकाणाञ्च माणिक्यानां महाशय ! ॥
तुलसीशुक्लपुष्पाणां दर्शनं पापनाशनम् ।फलानि शुक्लधान्यानि घृतं दधि मधूनि च ॥
पूर्णकुम्भञ्च लाजाञ्च राजेन्द्रं दर्पणं जलम् ।मालाञ्च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः ॥
गोरोचनाञ्च कर्पूरं रजतञ्च सरोवरम् ।पुष्पोद्यानं पुष्पितञ्च दृष्ट्वा पुण्यं लभेन्नरः ॥
देवाश्रितं देवघटं सुगन्धिपवनं तथा ।शङ्खञ्च दुन्द्वभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः ॥
शुक्लपक्षस्य चन्द्रस्य पीयुषं चन्दनं तथा ।कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द ! पुण्यं लभेन्नरः ॥
पताकामक्षयवटं तरुं देवोत्थितं शुभम् ।देवालयं देवखातं दृष्ट्वा पुण्यं लभेन्नरः ॥
शुक्तिं प्रवालं रजतं स्फाटिकं कुशमूलकम् ।गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः ॥
पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् ।स्निग्धदूर्व्वाक्षतं रत्नं दृष्ट्वा पुण्यं लभेन्नरः ॥
तपस्विनं सिद्धमन्त्रं समुद्रं कृष्णसारकम् ।यज्ञं महोत्सवं दृष्ट्वा सुपुण्यं लभते नरः ॥
गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोस्पदम् ।पक्वशस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेन्नरः ॥
रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् ।सुवेशकां सुवसनां दिव्यभूषणभूषिताम् ॥
वेश्यां क्षेमङ्करीं गन्धं सदूर्व्वाक्षततण्डुलम् ॥
सिद्धान्नं परमान्नञ्च दृष्ट्वा पुण्यं लभेद्ध्रुवम् ॥
कार्त्तिकीपूर्णिमायाञ्च राधिकाप्रतिमां शुभाम् ।संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम् ॥
हिङ्गुलायां तथाष्टम्यामिषे मासि सिते शुभे ।श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ॥
शिवरात्रौ च काश्याञ्च विश्वनाथस्य दर्शनम् ।कृत्वोपवासं पूजाञ्च करोति जन्मखण्डनम् ॥
जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिल्वमाधवम् ।प्रणम्य पूजां कृत्वा च करोति जन्मखण्डनम् ॥
उपोष्य व्रजभूमौ च भाण्डीरे मालतीवने ।संपूज्य राधां माञ्चैव करोति जन्मखण्डनम् ॥
पौषे मासि शुक्लरात्रौ यत्र तत्र स्थले नरः ।पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ॥
सप्तजन्म भवेत्तस्य पुत्त्रः पौत्त्रो धनेश्वरः ॥
उपोष्यैकादशीं स्नात्वा प्रभाते द्बादशीदिने ।दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् ॥
दत्त्वा विष्णुपदे पिण्डं विष्णुं यश्च प्रपूजयेत् ।पितॄणां स्वात्मनश्चैव करोति जन्मखण्डनम् ॥
प्रयागे मुण्डनं कृत्वा यश्च पितॄन् प्रतर्पयेत् ।उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् ॥
उपोष्य पुष्करे स्नात्वा किंवा वदरिकाश्रमे ।संपूज्य दृष्ट्वा मामेव करोति जन्मखण्डनम् ॥
सिद्धां कृत्वा च वदरीं भुङ्क्ते वदरिकाश्रमे ।दृष्ट्वा मत्प्रतिमां नन्द ! करोति जन्मखण्डनम् ॥
दोलायमानं गोविन्दं दृष्ट्वा वृन्दावने च माम् ।दृष्ट्वा संपूज्य नत्वा च करोति जन्मखण्डनम् ॥
भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् ।संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् ॥
रथस्थञ्च जगन्नाथं यो द्रक्ष्यति कलौ नरः ।संपूज्ज भक्त्या नत्वा च करोति जन्मखण्डनम् ॥
उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् ।संपूज्य नत्वा मामेव करोति जन्मखण्डनम् ॥
कार्त्तिकीपूर्णिमायाञ्च दृष्ट्वा मत्प्रतिमां शुभाम् ।उपोष्य पूजां कृत्वा च करोति जन्मखण्डनम् ॥
चन्द्रभागासमीपे च माघ्याञ्च मां नयेत् शनैः ।राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् ॥
रामेश्वरं सेतुवन्धे आषाढीपूर्णिमादिने ॥
उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥
दीननाथं दिनकरं लोलार्के चोत्तरायणे ।उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥
कृषिकोष्ठे सुवसने कलविङ्के सुगह्वरे ।विस्यन्दके राजकोष्ठे नन्दके पुष्पभद्रके ॥
पार्व्वतीप्रतिमां दृष्ट्वा कार्त्तिकेयं गणेश्वरम् ।नन्दिनं शङ्करं दृष्ट्वा करोति जन्मनः क्षयम् ॥
त्रिकूटे मणिभद्रे च पश्चिमोदधिसन्निधौ ।समुपोष्य दधि प्राश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
