| YouTube Channel

दर्व्वः (darvvaH)

 
शब्दकल्पद्रुमः
Sanskrit
दर्व्वः,
पुं,
(दृणाति विदारयतीति दॄ + “कॄगॄशॄदॄ-भ्यो वः ।” उणां १५५ इति वः ।) राक्षमः ।हिंस्रः इति संक्षिप्तसारे उणादिवृत्तिः
(जातिविशेषः यथा, महाभारते ५१ १३ ।“कैरता दरदा दर्व्वाः शूरा वैयामकास्तथा ।औदुम्बरा दुर्व्विभागाः पारदाः सह वाह्लिकैः
”स्त्रियां टाप् उशीनरपत्नीभेदः यथा, हरि-वंशे ३१ २२ ।“उशीनरस्य पत्न्यस्तु पञ्च राजषिवंशजाः ।नृगा कृमी नवा दर्व्वा पञ्चमी दृषद्वती
”)