| YouTube Channel

दर्वीकर (darvIkara)

 
Capeller Eng
English
दर्वीकर
m.
a kind of snake with an expanded hood.
Spoken Sanskrit
English
दर्वीकर darvIkara
m.
hooded snake
Monier Williams Cologne
English
दर्वी—कर
m.
a hooded snake (class of snakes with 26 species),
Suśr.
i, 46
v, 4
Daś.
vii, 165
Aṣṭāṅg. vi, 36.
Macdonell
English
दर्वीकर darvī-kara,
m.
id..
Benfey
English
दर्वीकर दर्वी-कर,
n.
A kind of
snake, Daśak. in Chr. 187, 8.
Apte Hindi
Hindi
दर्वीकरः
पुं*
दर्वी-करः -
"साँप, सर्प"
Shabdartha Kaustubha
Kannada
दर्वीकर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸರ್ಪ /ಹಾವು
व्युत्पत्तिः - > दर्व्याकारः फण एव करो यस्य
प्रयोगाः - > "दर्वीकरा दीपकाश्च तेषूक्ताः कटुपाकिनः"
उल्लेखाः - > सुश्रुत० सूत्र० ४६-८४
L R Vaidya
English
darvI(rvi)-kara {% m. %} a snake, a serpent.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
दर्वीकर °Adj. einen Löffel in der Hand haltend, Muk. 63, 11 v.u. (Wortspiel mit दर्वीकर, Haubenschlange).
अभिधानचिन्तामणिः
Sanskrit
--source--
जाहको गात्रसंकोची मण्डली नकुलः पुनः
पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः १३०२
भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः
काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः १३०३
दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ
कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी १३०४
-wordlist-
जाहक (पुं), गात्रसङ्कोचिन् (पुं), मण्डलिन् (पुं), नकुल (पुं), पिङ्गल (पुं), सर्पहन् (पुं), बभ्रु (पुं), सर्प (पुं), अहि (पुंस्त्री), पवनाशन (पुं), भोगिन् (पुं), भुजङ्ग (पुं), भुजग (पुं), उरग (पुं), द्विजिह्व (पुं), व्याल (पुं), भुजङ्गम (पुं), सरीसृप (पुं), दीर्घजिह्व (पुं), काकोदर (पुं), विषधर (पुं), फणभृत् (पुं), पृदाकु (पुं), दृक्कर्ण (पुं), कुण्डलिन् (पुं), बिलेशय (पुं), दन्दशूक (पुं), दर्वीकर (पुं), कञ्चुकिन् (पुं), चक्रिन् (पुं), गूढपाद् (पुं), पन्नग (पुं), जिह्मग (पुं), लेलिहान (पुं), कुम्भीनस (पुं), आशीविष (पुं), दीर्घपृष्ठ (पुं), राजसर्प (पुं), भुजङ्गभोजिन् (पुं)
अभिधानरत्नमाला
Sanskrit
विषधर
विषधर, दन्दशूक, पवनाशन, सर्प, सरीसृप, उरुग, व्याल, भुजग, भुजङ्ग, कुम्भीनस, पन्नग, नाग, भोगिन्, अहि, फणभृत्, पृदाकु, काकोदर, कञ्चुकि, चक्रिन्, गूढपाद्, द्विरसन, काद्रवेय, दर्वीकर, अदृक्श्रुति, भुजङ्गम, आशीविष, दीर्घपृष्ठ, कुण्डलिन्, जिह्मग
विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-
भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः
अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,
द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ६४०
आशीविषो दीर्घपृष्ठः कुण्डली जिह्मगः स्मृतः
verse 3.1.1.640
page 0073
शब्दकल्पद्रुमः
Sanskrit
दर्व्वीकरः,
पुं,
(दर्व्वीं फणां करोतीति कृ + “कृञोहेतुताच्छील्यानुलोम्येषु ।” २० इति टः ।यद्वा, दर्व्वी फणा कर इवास्य ।) सर्पः इत्य-मरः
(यथा, सुश्रुते कल्पस्थानेचतुर्थाध्याये ।“दर्व्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः ।तेषु दर्व्वीकरा ज्ञेया विंशतिः षट् पन्नगाः
”“रथाङ्गलाङ्गलच्छत्त्रस्वस्तिकाङ्कुशधारिणः ।ज्ञेया दर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः
”तत्र दर्व्वीकरभेदा यथा, --“दर्व्वीकराः कृष्णसर्पो महाकृष्णः कृष्णोदरः श्वेत-कपोतो महाकपोतो बलाहकी महासर्पः शङ्ख-पाली लोहिताक्षो गवेधुकः परिसर्पः खण्डफणःककुदः पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्ड-रीको भ्रुकुटीमुखो विष्किराः पुष्पाभिकीर्णोगिरिसर्प ऋजुसर्पः श्वेतोदरो महाशिरा अल-गर्द्द आशीविष इति
”एतद्विषजनितलक्षणादिकं यथा, --“तत्र दर्व्वीकरविषेण त्वङ्नयननखदशनमूत्र-पुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धि-वेदना कटीपृष्ठग्रीवादौर्व्वल्यं जृम्भणं वेपथुःस्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कास-श्वासौ हिक्का वायोरूर्द्ध्वगमनं शूलोद्वेष्टनं तृष्णालालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्चवातवेदना भवन्ति
दर्व्वीकरदष्टानां विष-वेगादिकमाह यथा, --“तत्र सर्व्वेषां सर्पाणां विषस्य सप्तवेगा भवन्ति ।तत्र दर्व्वीकराणां प्रथमे वेगे विषं शोणितं दूषयतितत् प्रदुष्टं कृष्णतामुपैति तेन कार्ष्ण्यपिपीलिका-परिसर्पणमिव चाङ्गे भवति द्वितीये मांसंदूषयति तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गेभवन्ति तृतीये मेदो दूषयति तेन दंशक्लेदःशिरोगौरवं स्वेदश्चक्षुर्ग्रहणञ्च चतुर्थे कोष्ठमनु-प्रविश्य कफप्रधानान् दोषान् दूषयति तेन तन्द्राप्रसेकसन्धिविश्लेषा भवन्ति पञ्चमे अस्थीन्यनु-प्रविशति प्राणमग्निञ्च दूषयति तेन पर्व्वभेदोहिक्कादाहश्च भवति षष्ठे मज्जानमनुप्रवि-शति ग्रहणीञ्चात्यर्थं दूषयति तेन गात्राणांगौरवमतिसारो हृत्पीडा मूर्च्छा भवति ।सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यथं कोपयति ।कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्मवर्त्ति-प्रादुर्भावः कटिपृष्ठभङ्गश्च सर्व्वचेष्टाविघातोलालास्वेदयोरतिप्रवृत्तिरुच्छासनिरोधश्च भवति
”अथ दर्व्वीकरदष्टस्य चिकित्सामाह तत्रैव ।“फणिनां विषवेगे तु प्रथमे शोणितं हरेत् ।द्वितीये मधुसर्पिभ्यां पाययेतागदं भिषक्
नस्य कर्म्माञ्जने युञ्ज्यात् तृतीये विषनाशने ।वान्तं चतुर्थे पूर्व्वोक्तां यवागूमथ दापयेत्
शीतोपचारं कृत्वादौ भिषक् पञ्चमषष्ठयोः ।दापयेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम्
सप्तमे त्ववपीडेन शीरस्तीक्षेण शोधयेत् ।तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्द्ध्व्नि
कुर्य्यात् काकपदं चर्म्म सासृग्वा पिशितंक्षिपेत्
”)खजाकाकारके, त्रि
वाचस्पत्यम्
Sanskrit
दर्वीकर
पु०
दर्वी फणा कर इवास्य सर्पे अहिशब्दे दृश्यम्
Capeller
German
दर्वीकर
m.
Haubenschlange.