| YouTube Channel

दर्पकः-र्पिका (darpakaH-rpikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दृप हर्षमोहनयोः”@} 2 रधादिः।
‘हर्षमोचनयोः’ इति मैत्रेयः।
‘मोहनम् = गर्वः’ इति स्वामी।
धातोरस्यानुदात्तत्वेऽपि नात्मनेपदित्वम्, वा इण्णिषेधः।
किं तु ‘अनु- दात्तस्य ऋदुपधस्य--’ 3 इत्यत्र ग्रहणार्थमेवानुदात्तत्वम्।
‘रधादिभ्यश्च’ 4 इत्यनेन, तेनेड्विकल्पः।
‘रधादित्वादिमौ- वेट्कावमर्थमनुदात्तता।’ इति वचनमिह स्मर्तव्यम्।
दर्पकः-र्पिका, दर्पकः-र्पिका, दिदर्पिषकः-षिका-दिदृप्सकः-प्सिका, दरीदृपकः-पिका
दर्पिता-द्रप्ता-दर्प्ता-त्रीं, इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकतृप्यतिवत् 5 ज्ञेयानि।
6 दर्पणः।
प्रासङ्गिक्यः
01
=>
(८५९)
02
=>
(४-दिवादिः-११९६। अक। वेट्। पर।)
03
=>
(६-१-५९)
04
=>
(७-२-४५)
05
=>
(७७०)
06
=>
[[१। दर्पयति = हर्षयतीत्यर्थे ण्यन्तादस्मात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युप्रत्यये, अनादेशे रूपमेवम्। दर्पणः = आदर्शः।]]
1 {@“दृप उत्क्लेशे”@} 2 ‘दृफ’ इति द्वितीयान्तोऽयमित्येके।
दर्पकः-र्पिका, दर्पकः-र्पिका, दिदर्पिषकः-षिका, दरीदृपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतृपतिवत् 3 ज्ञेयानि।
4
प्रासङ्गिक्यः
01
=>
(८६०)
02
=>
(६-तुदादिः-१३१३। अक। सेट्। पर।)
03
=>
(७७२)
04
=>
[पृष्ठम्०७६३+ २७]
1 {@“दृप सन्दीपने”@} 2 ‘तृप तृप्तौ’ 3 इत्यस्य पाठान्तरोऽयम्।
दर्पकः-र्पिका, दिदर्पयिषकः- षिका
दर्पकः-र्पिका, दिदर्पिषकः-षिका, दरीदृपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(८६१)
02
=>
(१०-चुरादिः-१८२१। सक। सेट्। उभ। आधृषीयः।)
03
=>
(७७३)
04
=>
(५५४)