| YouTube Channel

दर्द्दुरः (dardduraH)

 
शब्दकल्पद्रुमः
Sanskrit
दर्द्दुरः,
पुं,
(दृणाति कर्णौ शब्देनेति दॄ +“मकुरदर्द्दुरौ ।” उणां ४१ इति उरच्प्रत्ययेन निपातनात् साधुः ।) भेकः इत्यमरः ।१ १० २४
(यथा, --“भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे ।दर्द्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम्
”इत्युद्भटः
)मेघः वाद्यभाण्डभेदः पर्व्वतविशेषः इतिमेदिनी रे, १६७
(यथा, रघौ ५१ ।“स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।स्तनाविव दिशस्तस्याः शैलौ मलयदर्द्दुरौ
”)राक्षसः इति संक्षिप्तसारे उणादिवृत्तिः
(अभ्रकधातुभेदः यथा, भावप्रकाशे ।“पिनाकं दर्द्दुरं नागं वज्रञ्चेति चतुर्व्विधम्
”“दर्द्दरं स्वग्निनिक्षिप्तं कुरुते दर्द्दुरध्वनिम् ।गोलकान् बहुशः कृत्वा स्यान्मृत्युप्रदायकः
”)