| YouTube Channel

दरिद्रा (daridrA)

 
शब्दसागरः
English
दरिद्रा r. 2nd cl. (दरिद्राति) 3rd plu. (दरिद्रति) To be poor or needy. अदा०
पर० अक० सेट्
Capeller Eng
English
दरिद्रा v. 1 द्रा.
Yates
English
दरिद्रा (ल) दरिद्राति 2.
a. To be poor.
Wilson
English
दरिद्रा r. 2nd cl. (दरिद्राति) 3rd plu. (दरिद्रति) To be poor
or needy.
Apte
English
दरिद्रा [daridrā], 2
P.
(दरिद्रति, दरिद्रित
Caus.
दरिद्रयति desid- दिदरिद्रासति, दिदरिद्रिषति)
To be poor or needy
अधो$ पश्यतः कस्य महिमा नोपजायते उपर्युपरि पश्यन्तः सर्व एव दरिद्रति
H.*
2.2
Bk.*
18.31.
To be in distress
युक्तं ममैव किं वक्तुं दरिद्रति यथा हरिः
Bk.*
5.86.
To become thin or sparse
दरिद्रति वियद्द्रुमे कुसुमकान्तयस्तारकाः Vikr.11.74.
Apte 1890
English
दरिद्रा {c2c} P. (दरिद्राति, दरिद्रित
caus. दरिद्रयति
desid. दिदरिद्रासति, दिदरिद्रिषति) 1 To be poor or needy
अधोऽधः पश्यतः कस्य महिमा नोपजायते उपर्युपरि पश्यंतः सर्व एव दरिद्रति H. 2. 2
Bk. 18. 31.
2 To be in distress
युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः Bk. 5. 86.
3 To become thin or sparse
दरिद्रति वियद्द्रुमे कुसुमकांतयस्तारकाः Vikr. 11. 74.
Monier Williams 1872
English
दरिद्रा दरिद्रा (reduplicated form of
rt. 1. द्रा
according to some, an old
Intens. form
perhaps connected with rt. दॄ), cl. 2.
P. दरिद्राति (दरिद्रिवस्, दरिद्रितस्, 3rd pl. द-
रिद्रति), दरिद्राञ्-चकार or ददरिद्रौ, दरि-
द्रिष्यति, अदरिद्रीत् and अदरिद्रासीत्, दरिद्रि-
तुम्, to be poor or needy, to be in distress.
Macdonell
English
दरिद्रा DAR-I-DRĀ, v. द्रा DRĀ, run.
Benfey
English
दरिद्रा दरिद्रा, see द्रा।
Apte Hindi
Hindi
दरिद्रा
"अदा* पर*- , " - -
"निर्धन होना, गरीब होना"
दरिद्रा
"अदा* पर*- , " - -
कष्टग्रस्त होना
दरिद्रा
"अदा* पर*- , " - -
दुबला-पतला होना
दरिद्रा
अदा*पर*प्रे* - -
"निर्धन होना, गरीब होना"
दरिद्रा
अदा*पर*प्रे* - -
कष्टग्रस्त होना
दरिद्रा
अदा*पर*प्रे* - -
दुबला-पतला होना
दरिद्रा
अदा*पर*इच्छा* - -
"निर्धन होना, गरीब होना"
दरिद्रा
अदा*पर*इच्छा* - -
कष्टग्रस्त होना
दरिद्रा
अदा*पर*इच्छा* - -
दुबला-पतला होना
Shabdartha Kaustubha
Kannada
दरिद्रा - दुर्गतौ (अदा० पर० अक० से०) दरिद्राति
पदविभागः - > धातुः
कन्नडार्थः - > ದರಿದ್ರನಾಗು /ಕೆಟ್ಟಸ್ಥಿತಿ ಹೊಂದು /ಧನಹೀನನಾಗು
L R Vaidya
English
daridrA {% vi. 2P (pp. दरिद्रित
pres. दरिद्राति
caus. दरिद्रयति
desid. दिदरिद्रासति, दिदरिद्रिषति) %} 1. To be poor or needy, e.g. व्यापारांतरमुत्सिज्य वीक्षमाणो वधूमुखम् यो गृहेष्वेव निद्राति दरिद्राति दुर्मतिः
2. to be distressed, दरिद्राति यथा हरिः Bt.v.86
3. to be sparse, दरिद्रति विपद्द्रुमे कुसुमकांतयस्तारकाः Vikr.Ch.xi.74.
daridra {% a. (f. द्रा) %} Poor, needy, distressed, तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि परितुष्टे कोऽर्थवान् को दरिद्रः Bhartr.iii.50.
Bopp
Latin
दरिद्रा 2. P. (forma redupl. a r. द्रा, v. gr. 108.) pauperem
esse, fieri. HIT. 45. 10.: उपर्य् उपरि पश्यन्तो
सर्व एव दरिद्रति.
Kridanta Forms
Sanskrit
दरिद्रा (द꣡रि꣡द्रा꣡ दुर्गतौ - अदादिः - सेट्)
ल्युट् = दरिद्राणम्
अनीयर् = दरिद्रणीयः - दरिद्रणीया
ण्वुल् = दरिद्रायकः - दरिद्रायिका
तुमुँन् = दरिद्रितुम्
तव्य = दरिद्रितव्यः - दरिद्रितव्या
तृच् = दरिद्रिता - दरिद्रित्री
क्त्वा = दरिद्रित्वा
ल्यप् = प्रदरिद्र्य
क्तवतुँ = दरिद्रितवान् - दरिद्रितवती
क्त = दरिद्रितः - दरिद्रिता
शतृँ = दरिद्रत् / दरिद्रद् - दरिद्रती
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दरिद्रा
मूलधातुः:
दरिद्रा
धात्वर्थः:
दुर्गतौ
गणः:
अदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दरिद्राति
अनुबन्धादिविशेषः:
आकारान्तः
धातुप्रदीपः
Sanskrit
दरिद्रा दुर्गतौ
- दरिद्राति दरिद्रितः दरिद्रति ''कलौ सर्वे दरिद्रति '' दरिद्रिता दिदरिद्रासति दिदरिद्रिषति दरिद्रत् दरिद्रनौ दरिद्राणम् दरिद्रायकः दरिद्रः दारिद्री ।। 64 ।।
Wordnet
Sanskrit
Synonyms:
निर्धनः, निर्धना, दरिद्रः, दरिद्रा, अधनः, अधना, दीनः, दीना, धनवर्जितः, धनवर्जिता, धनहीनः, धनहीना
noun
धनरहितः मनुष्यः।
"मनोहरदासमहोदयः सर्वदा एव निर्धनानां सहाय्यं करोति।"
शब्दकल्पद्रुमः
Sanskrit
दरिद्रा, क्ष लु दुर्गत्याम् इति कविकल्पद्रुमः
(अदां-परं-अकं-सेट् ।) दुर्गतिरकिञ्चनीभावः ।क्ष लु, उपर्य्युपरि पश्यन्तः सर्व्व एव दरिद्रति ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दरिद्रा दुर्गतौ अदा० स्वपा०
पर०
अक० सेट् दरि-द्राति जक्षा० दरिद्रति अदरिद्रीत्--अदरिद्रासीत् दरि-द्रामास बभूव चकार ददरिद्र ददरिद्रौ इत्येके ।दरिद्रिता दरिद्र्यात् दरिद्रिष्यति दरिद्राणः ।सनि दिदरिद्रिषति दिदरिद्रासति
क्षीरतरङ्गिणी
Sanskrit
दरिद्रा दुर्गतौ
- सेट् दरिद्राति इद् दरिद्रस्य (64114)-दरिद्रितः श्नाभ्यस्तयोरातः (64112) लोपः दरिद्रति दरिद्रातेरसार्वधातुके (कातन्त्र 3834) दरिद्र्यते, दरिद्रायते इत्येके पचादौ (द्र0 31134) दरिद्रः दरिद्रातेर्वा इत्याम्-दरिद्रांचकार ददरिद्रौ अभ्यस्ताज् (द्र0 34109) झेर्जुस्-अदरिद्रुः, लुङि वा--अदरिद्रीत् अदरिद्रासीत् तनिपतिदरिद्राणां (तु0 7249 वा0) सनि वेट्-दिदरिद्रासति दिदरिद्रिषति दरिद्रायके लोपो दरिद्राणे नेष्यते, दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा (64114 वा0) दरिद्रितः, यस्य विभाषा (7215) इतीण्निषेधो नास्ति, तत्रैकाच् इत्यनुवृत्तेः दरिद्रातेर्यालोपश्च (उ0 190) इत्यूः-दर्द्रूः 60
धातुवृत्तिः
Sanskrit
दरिद्रा (अर्थः) दुर्गतौ
( दरिद्राति, दरिद्रितः, दरिद्रति, दरिद्रासि, दरिद्रिथः, दरिद्रिथ, दरिद्रामि, दरिद्रिवः ) "इद्दरिद्रस्य'' इति हलादौ क्ङिति सार्वधातुके इत्त्वम् अजादौ तु "श्नाभ्यस्तयोरात'' इत्याल्लोपः, ( दरिद्रांचकार ) [कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम् ] इत्याम्प्रत्ययः अत्र काश्यपः, आमो विकल्पमुक्त्वा "ददरिद्रौ ददरिद्रवान्' इत्युदाजहार एवं तरङ्गिणीकारोऽपि अत्र मूलं पारायणिकेनोक्तम् "आत णलः'' इत्यत्रप्रथमातिक्रमे कारणाभावादोकारवचनेनापि पपावित्यादिसिद्धौ औकारवचनं [ दरिद्रातेरार्धधातुके लोपो वक्तव्यः ] इत्याल्लोपे ददारिद्रावित्याद्यर्थमेवार्थवत्'' इति "वस्वेकाच्'' इत्यत्र वृत्तिकारेण दरिद्रातेस्तु [ कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् ] इत्यामा भवितव्यं, (दरिद्रांचकार) इति अथाप्याम्न क्रियते तथापि "दरिद्रातेरार्धधतुके लोपस्सिद्धश्च प्रत्ययविधौ' इति प्रागेव प्रत्ययोत्पत्तेराकारलोपे कृते इडागमस्य निमित्तं विहितमिति नेडागमो भवति, ददरिद्रवान् इति भवितव्यम्'' इत्यभ्युपगम्यवादीनामभाव उक्तः अभ्युपगमस्य मूलम् "आत णल'' इत्यौकारवचनमाह हरदत्तः आत्रेयस्त्वाम्नित्य इत्युक्त्वा वृत्तिकारोक्तमभ्युपगम्यवाद इत्याह ( दरिद्रिता दरिद्रिष्यति दरिद्रातु, दरिद्रितात्, दरिद्रितां, दरिद्रिहि, दरिद्राणि अदरिद्रात्, अदरिद्रिताम्, अदरिद्रुः ) "सिजभ्यस्त'' इति जुसि "श्नाभ्यस्तयोरात'' इत्याकारलोपः "लङश्शाकटायनस्यैव'' इति जुस्विकल्पो झावस्थायामेव "ई हल्यघोः'' इतीत्वं यथा भवति तथा जहातौ वक्ष्यते (उदरिद्राः, अदरिद्राम् दरिद्रियात्, दरिद्रियाताम् ) आशिषि, ( दरिद्र्यात्, दरिद्र्यास्ताम् ) आर्धधातुकत्वादातो लोपः, ( अदरिद्रीत्, अदरिद्रिष्टाम्, अदरिद्रिषुः, अदरिद्रीः, अदरिद्रिषम् ) "अद्यतन्यां वा' इति "दरिद्रातेरार्धधातुके' इत्याल्लोपस्य विकल्पनात्तदभावे सगिटोः ( अदरिद्रासीत् ) इत्यादि चिणि ( अदरिद्रि ) आलोपाभावे युकि ( अदरिद्रायि दिदरिद्रासति, दिदरिद्रिषति ) "तपिपतिदरिद्राणाम्'' इति इड्विकल्पः इडभावे
दरिद्रायके लोपो दरिद्राणे नेष्यते दिदरिद्रासतीत्येके, दिदरिद्रिषतीति वा
इत्युक्तत्वादाल्लोपाभावः ( दरिद्रायकः ) ण्वुल् ( दरिद्राणः ) ल्युट् निष्ठायां ( दरिद्रितः ) इटि "यस्य विभाषा'' इतीण्णिषेधस्तुकृतिप्रभृतीनामीदित्त्वेन तस्यानित्यत्वज्ञापनान्न भवति दरिद्रातीति ( दरिद्रः ) पचाद्यच् "श्याद्व्यध'' इत्याकारान्तलक्षणस्तु णो भवति, "दरिद्रातेरार्धधातुके'' इत्यस्य विषयसप्तमोत्वात् प्रागेव प्रत्ययोत्पत्तेराल्लोपात् ( दर्द्रूः ) "दरिद्रायालोपश्च' इतीकाराकारयोर्लोपः, ऊकारप्रत्ययश्च या इति इकाराकारयोर्निर्देशः ( दर्द्रुणः ) पामादिषु "दर्द्वा ह्रस्वत्वं च' इति पाठान्नप्रत्ययो ह्रस्वत्वं 63
कृदन्तरूपमाला
Sanskrit
1 {@“दरिद्रा दुर्गतौ”@} 2 जक्षित्यादिः।
धातोरस्यानेकाच्त्वाद् यङ् न।
3 दरिद्र यकः-यिका, 4 दरिद्रकः-द्रिका, 5 दिदरिद्रिषकः-षिका-दिदरिद्रासकः-सिका
6 दरिद्रिता-त्री, दरिद्रयिता-त्री, दिदरिद्रिषिता-दिदरिद्रासिता-त्री
7 दरिद्रत्-दरिद्रतौ-दरिद्रतः, दरिद्रयन्-न्ती, दिदरिद्रिषन्-दिदरिद्रासन्-न्ती
दरिद्रिष्यन्-न्ती-ती, दरिद्रयिष्यन्-न्ती-ती, दिदरिद्रिषिष्यन्-दिदरि-द्रासिष्यन्-न्ती-ती
-- दरिद्रयमाणः, दरिद्रयिष्यमाणः
-- 8 दरिद्-दरिद्रौ-दरिद्रः
-- -- -- 9 दरिद्रितम्-तः, दरिद्रितः, दिदरिद्रिषितः-दिदरिद्रासितः-तवान्
10 दरिद्रः 11, 12 ददरिद्रवान्, दरिद्रः, दिदरिद्रिषुः-दिदरिद्रासुः
दरिद्रितव्यम्, दरिद्रयितव्यम्, दिदरिद्रिषितव्यम्-दिदरिद्रासितव्यम्
दरिद्रणीयम्, दरिद्रणीयम्, दिदरिद्रिषणीयम्-दिदरिद्रासनीयम्
दरिद्र्यम्, दरिद्र्यम्, दिदरिद्रिष्यम्-दिदरिद्रास्यम्
13 14 ईषद्दरिद्रः-दुर्दरिद्रः-सुदरिद्रः
-- दरिद्र्यमाणः, दरिद्र्यमाणः, दिदरिद्रिष्यमाणः-दिदरिद्रास्यमानः
दरिद्रः, दरिद्रः, दिदरिद्रिषः-दिदरिद्रासः
दरिद्रितुम्, दरिद्रयितुम्, दिदरिद्रिषितुम्-दिदरिद्रासितुम्
15 दरिद्रा, दरिद्रणा, दिदरिद्रिषा-दिदरिद्रासा
16 दरिद्राणम्, दरिद्रणम्, दिदरिद्रिषणम्-दिदरिद्रासनम्
दरिद्रित्वा, दरिद्रयित्वा, दिदरिद्रिषित्वा-दिदरिद्रासित्वा
प्रदरिद्र्य, प्रदरिद्र्य, प्रदिदरिद्रिष्य-प्रदिदरिद्रास्य
दरिद्रम् २, दरिद्रित्वा २, दरिद्रम् २, दरिद्रयित्वा २, दिदरिद्रिषम् २-दिदरिद्रासम्
दिदरिद्रिषित्वा २-दिदरिद्रासित्वा
17 दर्द्रूः।
प्रासङ्गिक्यः
01
=>
(८२१)
02
=>
(२-अदादिः-१०७३। अक। सेट्। पर।)
03
=>
[[२। ‘दरिद्राजागृदीधीङाम् एकाचां चिरेर्जिरेः। अदन्तोर्णोतिवेवीङां स्मर्यते नेत्, तथा लडेः।।’ इति प्राचीनैः स्मरणात् धात्वाकारस्येत्संज्ञा न। ‘दरिद्रातेरार्धधातुके लोपो वाच्यः’ (वा। ६-४-११४) इत्यत्र ‘आर्धधातुके’ इत्यस्य विषयसप्तमीत्वादत्रापि आकारस्य लोपे प्राप्ते, ‘न दरिद्रायके लोपो दरिद्राणे चेष्यते।’ (भाष्येष्टिः ६-४-११४) इति वचनात् ण्वुलि आकारलोपो न। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमे रूपमेवम्।]]
04
=>
[[३। ण्यन्तात् ण्वुलि, णिचोऽप्यार्धधातुकत्वेन प्रत्ययोत्पत्तेः प्रागेव (णिज्विवक्षायामेव) आकारलोपे रूपम्। एवं ण्यन्ते सर्वत्र आकारलोपो ज्ञेयः।]]
05
=>
[[४। ‘दिदरिद्रिषतीत्येके दिदरिद्रासतीति वा।।’ (भाष्येष्टिः ६-४-११४) इति वचनात् अस्माद्धातोः सनि इड्विकल्पो भवतीति ज्ञायते। इट्पक्षे आकारलोपे, षत्वे दिदरिद्रिषकः इति, इडभावपक्षे आकारलोपाभावे दिदरिद्रासकः इति रूपम्। एवमेव सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।]]
06
=>
[पृष्ठम्०७२५+ २६]
07
=>
[[१। शतरि, ‘जक्षित्यादयः षट्’ (६-१-६) इति अभ्यस्तसंज्ञायाम्, ‘श्नाऽभ्यस्त- योरातः’ (६-४-११२) इत्याकारलोपे, ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधे रूपमेवम्।]]
08
=>
[[२। क्विपि, रेफस्य संयोगान्तलोपे रूपमेवम्।]]
09
=>
[[३। धातोरस्य सनि इड्विकल्पविधानात्, ‘यस्य विभाषा’ (७-२-१५) इत्यनेन निष्ठायामिण्णिषेधो शङ्क्यः
\n\n तत्र (७-२-१५) सूत्रे, ‘एकाचः’ इत्यनुवृत्तेरस्य चानेकाच्त्वात्। तेनेडागमे रूपमेवम्।]]
10
=>
[[४। ‘आत णलः’ (७-१-३४) इत्यत्र ‘ओ’ कारस्य विधानेनापि ‘बभौ’ इत्या- दिरूपसिद्धेः, ‘औ’ इति विधानेन, अस्य धातोः आर्धधातुके विवक्षिते लोपः प्रबलः इति ज्ञाप्यते। तेन आदन्तलक्षणः ‘श्याऽऽद्व्यध--’ (३-१-१४१) इति कर्तरि णप्रत्ययो भवति। पारिशेष्यात्, ‘इद् दरिद्रस्य’ (६-४-११४) इति निर्देशादपि औत्सर्गिके पचाद्यचि आलोपे रूपमेवम्। तत्र हि ‘दरिद्रस्य’ इत्यस्य दरिद्रशब्दप्रकृतेर्धातोरित्यर्थः।]]
11
=>
[[आ। ‘तं जाग्रतं दीनदरिद्रपोषे चकासतं शासतमप्रशान्तान्।’ धा। का। २। ५२।]]
12
=>
[[५। ‘पपुष आगतं पपिवद्रूप्यम्।’ इति भाष्य (४-३-२४) प्रयोगात् छान्दसस्यापि क्वसोः क्वचिद् भाषायां प्रयोगः। तेन क्वसौ इडागमाभावे रूपमेवम्। “-- ‘दरिद्रातेरार्धधातुके लोपः, सिद्धश्च प्रत्ययविधौ’ (वा। ६-४-११४) इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्ते, इडागमस्य निमित्तं विहतमिति इडागमो भवति। ददरिद्रवान् इति भवितव्यम्।।” इति काशिकायामुक्तम् (७-२-६७) इह स्मर्तव्यम्।]]
13
=>
[पृष्ठम्०७२६+ २७]
14
=>
[[१। अन्तरङ्गत्वेनानैमित्तिक आकारलोपे कृते आदन्तत्वविघातात् ‘आतो युच् (३-३-१२८) इति युच्प्रत्ययो भवति, परं तु खलेव। स्पष्टमिदम्, ‘इद् दरिद्रस्य’ (६-४-११४) इत्यत्र कैयटे।]]
15
=>
[[२। क्तिन्प्रत्ययविवक्षायामेवाकारलोपात् ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः।]]
16
=>
[[३। ‘दरिद्राणे चेष्यते।’ इति भाष्येष्ट्या (६-४-११४) ल्युटि आकारलो पो न। अनादेशे, सवर्णदीर्घे णत्वम्।]]
17
=>
[[४। ‘दरिद्रातेर्यालोपश्च’ (द। उ। १-१७३) इत्यनेन ऊप्रत्यये, धात्विकाराकारयोर्लोपे रूपमेबम्। दरिद्र्यते शरीरमनयेति दर्द्रूः = कुष्ठविकारः।]]
Capeller
German
दरिद्रा s. 1. द्रा.