दरिद्रः (daridraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit निर्धनः, निर्धना, दरिद्रः, दरिद्रा, अधनः, अधना, दीनः, दीना, धनवर्जितः, धनवर्जिता, धनहीनः, धनहीना
धनरहितः मनुष्यः।
"मनोहरदासमहोदयः सर्वदा एव निर्धनानां सहाय्यं करोति।"
निर्धनः, दरिद्रः, अधनः, धनहीनः, अल्पधनः, निर्धनकः, दीनः, क्षीणधनः, धनशून्यः, अर्थहीनः, निःस्वः, गतार्थः, निष्काञ्चनः
दुर्गतं विनिर्गतं वा धनं यस्मात्।
"निर्धनः कष्टेन धनवान् अपि भवति।"
अमरकोशः
SanskritWord: दरिद्रः
Root: दरिद्र
Gender: पुं
Number: all
Meaning(s):
⇒ poor
⇒ needy
⇒ roving
⇒ beggar
⇒ indigent
⇒ strolling
⇒ deprived of
Shloka(s):
3|1|49|1 ► निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। (विशेष्यनिघ्नवर्गः)
Synonym(s):
➠ 3|1|49|1 ⇢ निःस्वः (निःस्व) (पुं) ⇒ poor, indigent, moneyless, deprived of one's own
➠ 3|1|49|1 ⇢ (निःस्व) (स्त्री) ⇒ poor, indigent, moneyless, deprived of one's own
➠ 3|1|49|1 ⇢ निःस्वम् (निःस्व) (नपुं) ⇒ poor, indigent, moneyless, deprived of one's own
➠ 3|1|49|1 ⇢ दुर्विधः (दुर्विध) (पुं) ⇒ poor, mean, silly, stupid, miserable, badly circumstanced, acting in a bad manner
➠ 3|1|49|1 ⇢ (दुर्विध) (स्त्री) ⇒ poor, mean, silly, stupid, miserable, badly circumstanced, acting in a bad manner
➠ 3|1|49|1 ⇢ दुर्विधम् (दुर्विध) (नपुं) ⇒ poor, mean, silly, stupid, miserable, badly circumstanced, acting in a bad manner
➠ 3|1|49|1 ⇢ दीनः (दीन) (पुं) ⇒ sad, poor, timid, scarce, scanty, helpless, wretched, pitiable, afflicted, miserable, depressed, disconsolate
➠ 3|1|49|1 ⇢ (दीन) (स्त्री) ⇒ sad, poor, timid, scarce, scanty, helpless, wretched, pitiable, afflicted, miserable, depressed, disconsolate
➠ 3|1|49|1 ⇢ दीनम् (दीन) (नपुं) ⇒ sad, poor, timid, scarce, scanty, helpless, wretched, pitiable, afflicted, miserable, depressed, disconsolate
➠ 3|1|49|1 ⇢ दरिद्रः (दरिद्र) (पुं) ⇒ poor, needy, roving, beggar, indigent, strolling, deprived of
➠ 3|1|49|1 ⇢ (दरिद्र) (स्त्री) ⇒ poor, needy, roving, beggar, indigent, strolling, deprived of
➠ 3|1|49|1 ⇢ दरिद्रम् (दरिद्र) (नपुं) ⇒ poor, needy, roving, beggar, indigent, strolling, deprived of
➠ 3|1|49|1 ⇢ दुर्गतः (दुर्गत) (पुं) ⇒ poor, miserable, distressed, faring ill, unfortunate, reduced to poverty
➠ 3|1|49|1 ⇢ (दुर्गत) (स्त्री) ⇒ poor, miserable, distressed, faring ill, unfortunate, reduced to poverty
➠ 3|1|49|1 ⇢ दुर्गतम् (दुर्गत) (नपुं) ⇒ poor, miserable, distressed, faring ill, unfortunate, reduced to poverty
Related word(s):
परा_अपरासंबन्धः ➡ मनुष्यः
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritदरिद्रः, (दरिद्राति दुर्गच्छतीति । दरिद्रा +अच् ।) निर्धनः । तत्पर्य्यायः । निस्वः २दुर्विधः ३ दीनः ४ दुर्गतः ५ । इत्यमरः । ३ । १ ।४९ ॥
कीकटः ६ दुस्थः ७ । इति जटाधरः ॥
अस्तमितः ८ । इति दानधर्म्मः । तस्य कारणंयथा, --“अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।अदत्त्वा हेमधेनूश्च दरिद्रो जायते नरः ॥
”इति पाद्मे भूखण्डम् ॥
“दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः ॥
”इति श्रीभागवतम् ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“दरिद्रा दुर्गतौ”@} 2 जक्षित्यादिः।
धातोरस्यानेकाच्त्वाद् यङ् न।
3 दरिद्र यकः-यिका, 4 दरिद्रकः-द्रिका, 5 दिदरिद्रिषकः-षिका-दिदरिद्रासकः-सिका
6 दरिद्रिता-त्री, दरिद्रयिता-त्री, दिदरिद्रिषिता-दिदरिद्रासिता-त्री
7 दरिद्रत्-दरिद्रतौ-दरिद्रतः, दरिद्रयन्-न्ती, दिदरिद्रिषन्-दिदरिद्रासन्-न्ती
दरिद्रिष्यन्-न्ती-ती, दरिद्रयिष्यन्-न्ती-ती, दिदरिद्रिषिष्यन्-दिदरि-द्रासिष्यन्-न्ती-ती
-- दरिद्रयमाणः, दरिद्रयिष्यमाणः
-- 8 दरिद्-दरिद्रौ-दरिद्रः
-- -- -- 9 दरिद्रितम्-तः, दरिद्रितः, दिदरिद्रिषितः-दिदरिद्रासितः-तवान्
10 दरिद्रः 11, 12 ददरिद्रवान्, दरिद्रः, दिदरिद्रिषुः-दिदरिद्रासुः
दरिद्रितव्यम्, दरिद्रयितव्यम्, दिदरिद्रिषितव्यम्-दिदरिद्रासितव्यम्
दरिद्रणीयम्, दरिद्रणीयम्, दिदरिद्रिषणीयम्-दिदरिद्रासनीयम्
दरिद्र्यम्, दरिद्र्यम्, दिदरिद्रिष्यम्-दिदरिद्रास्यम्
13 14 ईषद्दरिद्रः-दुर्दरिद्रः-सुदरिद्रः
-- दरिद्र्यमाणः, दरिद्र्यमाणः, दिदरिद्रिष्यमाणः-दिदरिद्रास्यमानः
दरिद्रः, दरिद्रः, दिदरिद्रिषः-दिदरिद्रासः
दरिद्रितुम्, दरिद्रयितुम्, दिदरिद्रिषितुम्-दिदरिद्रासितुम्
15 दरिद्रा, दरिद्रणा, दिदरिद्रिषा-दिदरिद्रासा
16 दरिद्राणम्, दरिद्रणम्, दिदरिद्रिषणम्-दिदरिद्रासनम्
दरिद्रित्वा, दरिद्रयित्वा, दिदरिद्रिषित्वा-दिदरिद्रासित्वा
प्रदरिद्र्य, प्रदरिद्र्य, प्रदिदरिद्रिष्य-प्रदिदरिद्रास्य
दरिद्रम् २, दरिद्रित्वा २, दरिद्रम् २, दरिद्रयित्वा २, दिदरिद्रिषम् २-दिदरिद्रासम् २
दिदरिद्रिषित्वा २-दिदरिद्रासित्वा २
17 दर्द्रूः।
01 (८२१)
02 (२-अदादिः-१०७३। अक। सेट्। पर।)
03 [[२। ‘दरिद्राजागृदीधीङाम् एकाचां च चिरेर्जिरेः। अदन्तोर्णोतिवेवीङां स्मर्यते नेत्, तथा लडेः।।’ इति प्राचीनैः स्मरणात् धात्वाकारस्येत्संज्ञा न। ‘दरिद्रातेरार्धधातुके लोपो वाच्यः’ (वा। ६-४-११४) इत्यत्र ‘आर्धधातुके’ इत्यस्य विषयसप्तमीत्वादत्रापि आकारस्य लोपे प्राप्ते, ‘न दरिद्रायके लोपो दरिद्राणे न चेष्यते।’ (भाष्येष्टिः ६-४-११४) इति वचनात् ण्वुलि आकारलोपो न। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमे रूपमेवम्।]]
04 [[३। ण्यन्तात् ण्वुलि, णिचोऽप्यार्धधातुकत्वेन प्रत्ययोत्पत्तेः प्रागेव (णिज्विवक्षायामेव) आकारलोपे रूपम्। एवं ण्यन्ते सर्वत्र आकारलोपो ज्ञेयः।]]
05 [[४। ‘दिदरिद्रिषतीत्येके दिदरिद्रासतीति वा।।’ (भाष्येष्टिः ६-४-११४) इति वचनात् अस्माद्धातोः सनि इड्विकल्पो भवतीति ज्ञायते। इट्पक्षे आकारलोपे, षत्वे च दिदरिद्रिषकः इति, इडभावपक्षे आकारलोपाभावे दिदरिद्रासकः इति च रूपम्। एवमेव सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।]]
06 [पृष्ठम्०७२५+ २६]
07 [[१। शतरि, ‘जक्षित्यादयः षट्’ (६-१-६) इति अभ्यस्तसंज्ञायाम्, ‘श्नाऽभ्यस्त- योरातः’ (६-४-११२) इत्याकारलोपे, ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधे रूपमेवम्।]]
08 [[२। क्विपि, रेफस्य संयोगान्तलोपे रूपमेवम्।]]
09 [[३। धातोरस्य सनि इड्विकल्पविधानात्, ‘यस्य विभाषा’ (७-२-१५) इत्यनेन निष्ठायामिण्णिषेधो न शङ्क्यः
\n\n तत्र (७-२-१५) सूत्रे, ‘एकाचः’ इत्यनुवृत्तेरस्य चानेकाच्त्वात्। तेनेडागमे रूपमेवम्।]]
10 [[४। ‘आत औ णलः’ (७-१-३४) इत्यत्र ‘ओ’ कारस्य विधानेनापि ‘बभौ’ इत्या- दिरूपसिद्धेः, ‘औ’ इति विधानेन, अस्य धातोः आर्धधातुके विवक्षिते लोपः प्रबलः इति ज्ञाप्यते। तेन आदन्तलक्षणः ‘श्याऽऽद्व्यध--’ (३-१-१४१) इति कर्तरि णप्रत्ययो न भवति। पारिशेष्यात्, ‘इद् दरिद्रस्य’ (६-४-११४) इति निर्देशादपि औत्सर्गिके पचाद्यचि आलोपे च रूपमेवम्। तत्र हि ‘दरिद्रस्य’ इत्यस्य दरिद्रशब्दप्रकृतेर्धातोरित्यर्थः।]]
11 [[आ। ‘तं जाग्रतं दीनदरिद्रपोषे चकासतं शासतमप्रशान्तान्।’ धा। का। २। ५२।]]
12 [[५। ‘पपुष आगतं पपिवद्रूप्यम्।’ इति भाष्य (४-३-२४) प्रयोगात् छान्दसस्यापि क्वसोः क्वचिद् भाषायां प्रयोगः। तेन क्वसौ इडागमाभावे रूपमेवम्। “-- ‘दरिद्रातेरार्धधातुके लोपः, सिद्धश्च प्रत्ययविधौ’ (वा। ६-४-११४) इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्ते, इडागमस्य निमित्तं विहतमिति न इडागमो भवति। ददरिद्रवान् इति भवितव्यम्।।” इति काशिकायामुक्तम् (७-२-६७) इह स्मर्तव्यम्।]]
13 [पृष्ठम्०७२६+ २७]
14 [[१। अन्तरङ्गत्वेनानैमित्तिक आकारलोपे कृते आदन्तत्वविघातात् ‘आतो युच् (३-३-१२८) इति युच्प्रत्ययो न भवति, परं तु खलेव। स्पष्टमिदम्, ‘इद् दरिद्रस्य’ (६-४-११४) इत्यत्र कैयटे।]]
15 [[२। क्तिन्प्रत्ययविवक्षायामेवाकारलोपात् ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः।]]
16 [[३। ‘दरिद्राणे न चेष्यते।’ इति भाष्येष्ट्या (६-४-११४) ल्युटि आकारलो पो न। अनादेशे, सवर्णदीर्घे च णत्वम्।]]
17 [[४। ‘दरिद्रातेर्यालोपश्च’ (द। उ। १-१७३) इत्यनेन ऊप्रत्यये, धात्विकाराकारयोर्लोपे च रूपमेबम्। दरिद्र्यते शरीरमनयेति दर्द्रूः = कुष्ठविकारः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
