| YouTube Channel

दरदं (daradaM)

 
शब्दकल्पद्रुमः
Sanskrit
दरदं,
क्ली,
(दर ईषत् दायति शुध्यतीति दै +कः ।) हिङ्गुलम् इति राजनिर्घण्टः
(क्वचित्पुंलिङ्गेऽपि दृश्यते अस्य पर्य्यायो यथा, --“रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः
”इति वैद्यकरत्नमालायाम्
पर्य्यायान्तरं यथा, --“हिङ्गुलन्दरदं म्लेच्छं चित्राङ्गञ्चूणपारदम् ।दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुकतुण्डकः
हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरम् ।चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः
जवाकुसुमसङ्काशो हंसपादो महोत्तमः
”इति भावप्रकाशस्य पूर्व्वस्वण्डे प्रथमे भागे
“दरदं तण्डुस्थूलं कृत्वा मृत्पात्रके त्रिदिनम् ।भार्ञ्च जम्बीररसैश्चाङ्गेर्य्या वा रसैर्बहुधा
ततश्च जम्बीरवारिणा चाङ्गेर्य्या रसेन परिप्लुतम् ।कृत्वा स्थालीमध्ये निधाय तदुपरिकठिनीघृष्टम्
चारु शरावं तत्र त्रिंशद्वारं जलं देयं उष्णे हेयंतथैव तदूर्द्ध्वपातनेन निर्म्मलं शिवजः
”“हिङ्गुले हिङ्गुलुर्याति दरदः शुकतुण्डकः ।रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः
अम्लवर्गद्रवैः पिष्ट्वा दरदो माहिषेण ।दुग्धेन सप्तधा पिष्टः शुष्कीभूतो विशुध्यति
अन्यच्च ।मेषीदुग्धेन दरदमम्लवर्गैर्विभावितम् ।सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम्
अन्यमतम् ।दरदं दोलिकायन्त्रे पक्वं जम्बीरजैर्द्रवैः ।सप्तवारमजामूत्रैर्भावितं शुद्धिमेति हि
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
)