दम्भ्यमानः (dambhyamAnaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“दन्भु दम्भने”@} 2 दम्भनं = लोकरञ्जनार्थं कर्मानुष्ठानम्।
3 दम्भकः-म्भिका, दम्भकः-म्भिका, 4 दिदम्भिषकः-षिका, धिप्सकः-धीप्सकः-प्सिका, 5 दादभकः-भिका
दम्भिता-त्री, दम्भयिता-त्री, दिदम्भिषिता-धिप्सिता-धीप्सिता-त्री, दादभिता-त्री
6 7 दभ्नुवन्-दभ्नुवती, 8 दम्भयन्-न्ती, दिदम्भिषन्-धिप्सन्-धीप्सन्-न्ती
-- दम्भिष्यन्-न्ती-ती, दम्भयिष्यन्-न्ती-ती, दिदम्भिषिष्यन्-धिप्सिष्यन्-धीप्सिष्यन्-न्ती-ती
-- 9 व्यतिदभ्नुवानः, -- 10 व्यतिदिदम्भिषमाणः-व्यतिधिप्समानः-व्यतिधीप्समानः, दादभ्यमानः
व्यतिदम्भिष्यमाणः, -- व्यतिदिदम्भिषिष्यमाणः-व्यतिधिप्सिष्यमाणः-व्यतिधीप्सिष्यमोणः, दादभिष्यमाणः
11 सुधप्-सुधब्-सुधबौ-सुधबः
-- -- 12 दब्धम्-दब्धः-दब्धवान्, दम्भितः, दिदम्भिषितः-धिप्सितः-धीप्सितः, दादभितः-तवान्
दम्भः, सुदम्भी, 13 देभिवान्, दम्भः, दिदम्भिषुः 14 -धिप्सुः-धीप्सुः, दादम्भः
दम्भितव्यम्, दम्भयितव्यम्, दिदम्भिषितव्यम्-धिप्सितव्यम्-धीप्सितव्यम्, दादभितव्यम्
15 दम्भनीयम्, दम्भनीयम्, दिदम्भिषणीयम्-धिप्सनीयम्-धीप्सनीयम्, दादभनीयम्
16 दम्भ्यम्, दम्भ्यम्, दिदम्भिष्यम्-धिप्स्यम्-धीप्स्यम्, दादभ्यम्
ईषद्दम्भः-दुर्दम्भः-सुदम्भः
-- -- -- दभ्यमानः, दम्भ्यमानः, दिदम्भिष्यमाणः-धिप्स्यमानः-धीप्स्यमानः, दादभ्यमानः
दम्भः, दम्भः, दिदम्भिषः-धिप्सः-धीप्सः, दादभः
दम्भितुम्, दम्भयितुम्, दिदम्भिषितुम्-धिप्सितुम्-धीप्सितुम्, दादभितुम्
17 दब्धिः-दम्भा, दम्भना, दिदम्भिषा-धिप्सा-धीप्सा, दादभा
दम्भनम्, दम्भनम्, दिदम्भिषणम्-धिप्सनम्-धीप्सनम्, दादभनम्
18 दम्भित्वा-दब्ध्वा, दम्भयित्वा, दिदम्भिषित्वा-धिप्सित्वा-धीप्सित्वा, दादभित्वा
प्रदभ्य, प्रदम्भ्य, प्रदिदम्भिष्य-प्रधिप्स्य-प्रधीप्स्य, प्रदादभ्य
दम्भम् २ दम्भित्वा २-दब्ध्वा २, दम्भम् २ दम्भयित्वा २ दिदम्भिषम् २-धिप्सम् २-धीप्सम् २, दिदम्भिषित्वा २-धिप्सित्वा २-धीप्सित्वा-२, दादभम् २
दादभित्वा २
19 इत्यादिना रक्प्रत्ययः।
दभ्यते, दभ्नोति वा दभ्रः = अल्पम्, सूर्याचन्द्रमसौ च।]] दभ्रः।
20
01 (८१६)
02 (५-स्वादिः-१२७०। अक। सेट्। पर।)
03 [[३। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु। सकारजश्चकारश्चेर्षाट्टवर्गस्तवर्गजः।।’ इति वचनात् दम्भु इत्यत्र मकारः नकारस्थानिकः। तस्य ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारे कृते, ‘अनुस्वारस्य ययि--’ (८-४-५८) इति परसवर्णः। एवं सर्वत्र ज्ञेयम्।]]
04 [[४। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति इड्विकल्पः। इट्- पक्षे रूपमेवम्। इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इत्यत्र हल्त्वजात्याश्रयणेना- त्रापि सनः कित्त्वम्। ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारलोपः। ‘दम्भ इच्च’ (७-४-५६) इतीत्वम्, ईत्वं च भवति। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘एकाचो बशो भषू झषन्तस्य स्ध्वोः’ (८-२-३७) इति भष्भावः। भकारस्य चर्त्वेन पकारः। तेन धिप्सकः-धीप्सकः इति रूपद्वयम्। एवं सन्नन्ते सर्वत्र रूपत्रयं बोध्यम्।]]
05 [[५। यङन्तात् ण्वुलि, उपधानकारलोपे, अल्लोपयलोपयोरेवं रूपम्। एवं पचाद्यजन्तं वर्जयित्वा सर्वत्र यङन्ते, उपधानकारलोपो भवति।]]
06 [पृष्ठम्०७१६+ २३]
07 [[१। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये, तस्य सार्वधातुकत्वेन ङित्त्वाद् उपधानकारलोपे, गुणनिषेधे च, ‘अचि श्नुधातु--’ (६-४-७७) इत्यु- वङि च रूपमेवम्। एवं शानजन्तेऽपि प्रक्रिया बोध्या।]]
08 [[आ। ‘किञ्चादभ्नुवतीमिमां मम गृहानेहीति याच्ञापराम्--।।’ धा। का। २। ७०।]]
09 [[२। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। एवं सन्प्रत्ययेऽपि शानच्।]]
10 [[३। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तेऽपि कर्मव्यतीहारे गम्ये शानच्।]]
11 [[४। क्विपि, नकारलोपे, ‘एकाचो बशो भष्--’ (८-२-३७) इति भष्भावे चर्त्वविकल्पे च रूपम्।]]
12 [[५। क्त्वायामिड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः। ‘झषस्तथोर्घोऽधः’ (८-२-४०) इति निष्ठातकारस्य धकारः। ‘झलां जश् झशि’ (८-४-५३) इति भकारस्य बकारः।]]
13 [[६। लिटः क्वसौ, ‘अत एकहल्प्मध्येऽनादेशादेर्लिटि’ (६-४-१२०) इत्यत्र आदिग्रहणा- ज्ज्ञापकात् ‘श्रन्थिग्रन्थिदम्भुस्वञ्जीनां लिटः कित्त्वं वा’ इति व्याकरणान्तर- स्थस्य वाक्यस्येहाप्याश्रयणेन लिटो वा कित्त्वम्। तेनोपधानकारलोपः। ‘दम्भ एत्वमलक्षणम्। असिद्धत्वान्नलोपस्य दम्भ एत्वं न सिद्ध्यति।।’ (भाष्यम् ६-४-१२०) इति वचनात् एत्वाभ्यासलोपौ। कित्त्वपक्षे देभिवान् इति रूपम्। कित्त्वाभावपक्षे ददम्भिवान् इति रूपमिति बोध्यम्। स्ष्टमिदं बृहच्छब्देन्दु- शेखरे--(६-४-२०)।]]
14 [[B। ‘भूयस्तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुः।’ भ। का। ९। ३३।]]
15 [पृष्ठम्०७१७+ २२]
16 [[१। ‘आसुयुवपि--’ (३-१-१२६) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वेन दम्भेः सङ्ग्रहः इति काशिकायामुक्तम्
\n\n तत्तु भाष्यविरुद्धम्। एवं च ण्यदेव।]]
17 [[२। भावादौ क्तिनि, ‘तितुत्र--’ (७-२-९) इति इण्णिषेधे, उपधानकारलोपे, धत्व- जश्त्वयो रूपमेवम्। ‘प्रसज्य च अपवादविषयं तत उत्सर्गोऽभिनिविशते’ (परि- भाषा) इति न्यायेन प्रथमतः क्तिनभावे, ‘गुरोश्च हलः’ (३-३-१०३) इति अकारप्रत्यये दम्भा इति रूपं सिद्ध्यत्येव। एतदभिप्रायेणैव अन्चु, इन्धी, उन्दी, उन्भ, ऋन्फ, कुन्च, कुन्थ, क्रुन्च, गुन्फ, ग्रन्थ इत्यादिषु अञ्चा इत्यादीनि रूपाणि प्रदर्शितानीति ज्ञेयम्। अक्तिः, इद्धिः इत्यादीन्यपि क्रमेणो- ह्यानि।]]
18 [[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्, (१-२-१८) इति कित्त्वनिषेधात् नकारलोपो न। इडभावपक्षे, नकारलोपे धत्वजश्त्वयो रूपम्।]]
19 [[४। ‘स्फायितञ्चि--’ [द। उ। ८-३१]
20 [पृष्ठम्०७१८+ २२]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
