| YouTube Channel

दम्भनीयम् (dambhanIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दन्भु दम्भने”@} 2 दम्भनं = लोकरञ्जनार्थं कर्मानुष्ठानम्।
3 दम्भकः-म्भिका, दम्भकः-म्भिका, 4 दिदम्भिषकः-षिका, धिप्सकः-धीप्सकः-प्सिका, 5 दादभकः-भिका
दम्भिता-त्री, दम्भयिता-त्री, दिदम्भिषिता-धिप्सिता-धीप्सिता-त्री, दादभिता-त्री
6 7 दभ्नुवन्-दभ्नुवती, 8 दम्भयन्-न्ती, दिदम्भिषन्-धिप्सन्-धीप्सन्-न्ती
-- दम्भिष्यन्-न्ती-ती, दम्भयिष्यन्-न्ती-ती, दिदम्भिषिष्यन्-धिप्सिष्यन्-धीप्सिष्यन्-न्ती-ती
-- 9 व्यतिदभ्नुवानः, -- 10 व्यतिदिदम्भिषमाणः-व्यतिधिप्समानः-व्यतिधीप्समानः, दादभ्यमानः
व्यतिदम्भिष्यमाणः, -- व्यतिदिदम्भिषिष्यमाणः-व्यतिधिप्सिष्यमाणः-व्यतिधीप्सिष्यमोणः, दादभिष्यमाणः
11 सुधप्-सुधब्-सुधबौ-सुधबः
-- -- 12 दब्धम्-दब्धः-दब्धवान्, दम्भितः, दिदम्भिषितः-धिप्सितः-धीप्सितः, दादभितः-तवान्
दम्भः, सुदम्भी, 13 देभिवान्, दम्भः, दिदम्भिषुः 14 -धिप्सुः-धीप्सुः, दादम्भः
दम्भितव्यम्, दम्भयितव्यम्, दिदम्भिषितव्यम्-धिप्सितव्यम्-धीप्सितव्यम्, दादभितव्यम्
15 दम्भनीयम्, दम्भनीयम्, दिदम्भिषणीयम्-धिप्सनीयम्-धीप्सनीयम्, दादभनीयम्
16 दम्भ्यम्, दम्भ्यम्, दिदम्भिष्यम्-धिप्स्यम्-धीप्स्यम्, दादभ्यम्
ईषद्दम्भः-दुर्दम्भः-सुदम्भः
-- -- -- दभ्यमानः, दम्भ्यमानः, दिदम्भिष्यमाणः-धिप्स्यमानः-धीप्स्यमानः, दादभ्यमानः
दम्भः, दम्भः, दिदम्भिषः-धिप्सः-धीप्सः, दादभः
दम्भितुम्, दम्भयितुम्, दिदम्भिषितुम्-धिप्सितुम्-धीप्सितुम्, दादभितुम्
17 दब्धिः-दम्भा, दम्भना, दिदम्भिषा-धिप्सा-धीप्सा, दादभा
दम्भनम्, दम्भनम्, दिदम्भिषणम्-धिप्सनम्-धीप्सनम्, दादभनम्
18 दम्भित्वा-दब्ध्वा, दम्भयित्वा, दिदम्भिषित्वा-धिप्सित्वा-धीप्सित्वा, दादभित्वा
प्रदभ्य, प्रदम्भ्य, प्रदिदम्भिष्य-प्रधिप्स्य-प्रधीप्स्य, प्रदादभ्य
दम्भम् दम्भित्वा २-दब्ध्वा २, दम्भम् दम्भयित्वा दिदम्भिषम् २-धिप्सम् २-धीप्सम् २, दिदम्भिषित्वा २-धिप्सित्वा २-धीप्सित्वा-२, दादभम्
दादभित्वा
19 इत्यादिना रक्प्रत्ययः।
दभ्यते, दभ्नोति वा दभ्रः = अल्पम्, सूर्याचन्द्रमसौ च।]] दभ्रः।
20
प्रासङ्गिक्यः
01
=>
(८१६)
02
=>
(५-स्वादिः-१२७०। अक। सेट्। पर।)
03
=>
[[३। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु। सकारजश्चकारश्चेर्षाट्टवर्गस्तवर्गजः।।’ इति वचनात् दम्भु इत्यत्र मकारः नकारस्थानिकः। तस्य ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारे कृते, ‘अनुस्वारस्य ययि--’ (८-४-५८) इति परसवर्णः। एवं सर्वत्र ज्ञेयम्।]]
04
=>
[[४। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति इड्विकल्पः। इट्- पक्षे रूपमेवम्। इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इत्यत्र हल्त्वजात्याश्रयणेना- त्रापि सनः कित्त्वम्। ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारलोपः। ‘दम्भ इच्च’ (७-४-५६) इतीत्वम्, ईत्वं भवति। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘एकाचो बशो भषू झषन्तस्य स्ध्वोः’ (८-२-३७) इति भष्भावः। भकारस्य चर्त्वेन पकारः। तेन धिप्सकः-धीप्सकः इति रूपद्वयम्। एवं सन्नन्ते सर्वत्र रूपत्रयं बोध्यम्।]]
05
=>
[[५। यङन्तात् ण्वुलि, उपधानकारलोपे, अल्लोपयलोपयोरेवं रूपम्। एवं पचाद्यजन्तं वर्जयित्वा सर्वत्र यङन्ते, उपधानकारलोपो भवति।]]
06
=>
[पृष्ठम्०७१६+ २३]
07
=>
[[१। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये, तस्य सार्वधातुकत्वेन ङित्त्वाद् उपधानकारलोपे, गुणनिषेधे च, ‘अचि श्नुधातु--’ (६-४-७७) इत्यु- वङि रूपमेवम्। एवं शानजन्तेऽपि प्रक्रिया बोध्या।]]
08
=>
[[आ। ‘किञ्चादभ्नुवतीमिमां मम गृहानेहीति याच्ञापराम्--।।’ धा। का। २। ७०।]]
09
=>
[[२। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। एवं सन्प्रत्ययेऽपि शानच्।]]
10
=>
[[३। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तेऽपि कर्मव्यतीहारे गम्ये शानच्।]]
11
=>
[[४। क्विपि, नकारलोपे, ‘एकाचो बशो भष्--’ (८-२-३७) इति भष्भावे चर्त्वविकल्पे रूपम्।]]
12
=>
[[५। क्त्वायामिड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः। ‘झषस्तथोर्घोऽधः’ (८-२-४०) इति निष्ठातकारस्य धकारः। ‘झलां जश् झशि’ (८-४-५३) इति भकारस्य बकारः।]]
13
=>
[[६। लिटः क्वसौ, ‘अत एकहल्प्मध्येऽनादेशादेर्लिटि’ (६-४-१२०) इत्यत्र आदिग्रहणा- ज्ज्ञापकात् ‘श्रन्थिग्रन्थिदम्भुस्वञ्जीनां लिटः कित्त्वं वा’ इति व्याकरणान्तर- स्थस्य वाक्यस्येहाप्याश्रयणेन लिटो वा कित्त्वम्। तेनोपधानकारलोपः। ‘दम्भ एत्वमलक्षणम्। असिद्धत्वान्नलोपस्य दम्भ एत्वं सिद्ध्यति।।’ (भाष्यम् ६-४-१२०) इति वचनात् एत्वाभ्यासलोपौ। कित्त्वपक्षे देभिवान् इति रूपम्। कित्त्वाभावपक्षे ददम्भिवान् इति रूपमिति बोध्यम्। स्ष्टमिदं बृहच्छब्देन्दु- शेखरे--(६-४-२०)।]]
14
=>
[[B। ‘भूयस्तं धिप्सुमाहूय राजपुत्रं दिदम्भिषुः।’ भ। का। ९। ३३।]]
15
=>
[पृष्ठम्०७१७+ २२]
16
=>
[[१। ‘आसुयुवपि--’ (३-१-१२६) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वेन दम्भेः सङ्ग्रहः इति काशिकायामुक्तम्
\n\n तत्तु भाष्यविरुद्धम्। एवं ण्यदेव।]]
17
=>
[[२। भावादौ क्तिनि, ‘तितुत्र--’ (७-२-९) इति इण्णिषेधे, उपधानकारलोपे, धत्व- जश्त्वयो रूपमेवम्। ‘प्रसज्य अपवादविषयं तत उत्सर्गोऽभिनिविशते’ (परि- भाषा) इति न्यायेन प्रथमतः क्तिनभावे, ‘गुरोश्च हलः’ (३-३-१०३) इति अकारप्रत्यये दम्भा इति रूपं सिद्ध्यत्येव। एतदभिप्रायेणैव अन्चु, इन्धी, उन्दी, उन्भ, ऋन्फ, कुन्च, कुन्थ, क्रुन्च, गुन्फ, ग्रन्थ इत्यादिषु अञ्चा इत्यादीनि रूपाणि प्रदर्शितानीति ज्ञेयम्। अक्तिः, इद्धिः इत्यादीन्यपि क्रमेणो- ह्यानि।]]
18
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्, (१-२-१८) इति कित्त्वनिषेधात् नकारलोपो न। इडभावपक्षे, नकारलोपे धत्वजश्त्वयो रूपम्।]]
19
=>
[[४। ‘स्फायितञ्चि--’ [द। उ। ८-३१]
20
=>
[पृष्ठम्०७१८+ २२]