| YouTube Channel

दमितः (damitaH)

 
शब्दकल्पद्रुमः
Sanskrit
दमितः, त्रि, (दम्यते स्म इति दम + क्तः ।“वा दान्तशान्तेति ।” २७ इतिपक्षे इट् ।) दान्तः इत्यमरः ९७
(यथा, हरिवंशे ६७ ५६ ।“यथेयं सरिदम्भोदा भवेच्छिवजलाशया ।व्रजोपभोग्या यथा नागे वै दमिते मया
”)क्लेशसहमात्रम् इति भरतः
भारवाहनादि-क्लेशसहः इति सुभूतिः