| YouTube Channel

दमनकारोपणोत्सवः (damanakAropaNotsavaH)

 
शब्दकल्पद्रुमः
Sanskrit
दमनकारोपणोत्सवः,
पुं,
(दमनकस्य आरोप-णार्थं उत्सवः ।) श्रीकृष्णस्य दमनकार्पणार्थ-महापूजारूपोत्सवः यथा, --“चैत्रस्य शुक्लद्बादश्यां दमनारोपणोत्सवम् ।विदध्यात्तद्बिधिर्बौधायनाद्युक्तोऽत्र लिख्यते
मधोः सितैकादश्याञ्च प्रातःकृत्यं समाप्य ।गत्वा दमनकारामं तत्राशोकं स्मरं यजेत्
तत्र मन्त्रः ।अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन ! ।शीकार्त्तिं हर मे नित्यमानन्दं जनयस्व मे
नेष्यामि कृष्णपूजार्थं त्वां कृष्णप्रीतिकारकम् ।इति संप्रार्थ्य नत्वा गृह्णीयाद्दमनं शुभम्
प्रोक्ष्य तत् पञ्चगव्येन प्रक्षाल्याद्भिः प्रपूज्य ।वस्त्रेणाच्छाद्य वेदादिघोषेण गृहमानयेत्
*
अथ दमनकाधिवासविधिः ।कृष्णस्याग्रे समुद्धृत्य सर्व्वतोभद्रमण्डलम् ।निघाय दमनं तत्र रात्रौ तदधिवासयेत्
तत्र मन्त्रः ।पूजार्थं देवदेवस्य विष्णोर्लक्ष्मीपतेः प्रभोः ।दमन ! त्वमिहागच्छ सान्निध्यं कुरुते नमः
इतिसबीजं कामदेवञ्च तथा भस्मशरीरकम् ।अनङ्गं मन्मथञ्चैव वसन्तसखमेव
स्मरं तथेक्षुचापञ्च पुष्पबाणञ्च पूजयेत् ।प्रागादिदिक्षु रत्याढ्यं विधिवद्दमने क्रमात्
अष्टोत्तरशतं कामगायत्त्र्या चाभिमन्त्र्य तत् ।दत्त्वा पुष्पाञ्जलिं कामदेवं वन्देत मन्त्रवत्
मन्त्रश्चायम् ।नमोऽस्तु पुष्पबाणाय जगदाह्लादकारिणे ।मन्मथाय जगन्नेत्रे रतिप्रीतिप्रदायिने
इति
आमन्त्रितोऽसि देवेश ! पुराणपुरुषोत्तम ! ।प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव !
निवेदयाम्यहं तुभ्यं प्रातर्द्दमनकं शुभम् ।सर्व्वथा सर्व्वदा विष्णो ! नमस्तेऽस्तु प्रसीद मे
इत्थमामन्त्र्य देवेशं दत्त्वा पुष्पाञ्जलिं पुनः ।गोतनृत्यादिना रात्रौ कुर्य्याज्जागरणं मुदा
*
अथ दमनकार्पणविधिः ।प्रातःस्नानादि निर्व्वर्त्य नित्यपूजां विधाय ।दमनारोपणार्थञ्च महापूजां समाचरेत्
ततो दमनकं भक्त्या पाणिभ्यां परिगृह्य ।घण्टादिवाद्यघोषेण श्रीकृष्णाय समर्पयेत्
तत्र मन्त्रः ।देवदेव जगन्नाथ वाञ्छितार्थप्रदायक ! ।कृत्स्नान् पूरय मे कृष्ण कामान् कामेश्वरीप्रिय !
इदं दमनकं देव गृहाण मदनुग्रहात् ।इमां सांवत्सरीं पूजां भगवन्निह पूरय
इति
ततो दामनकीं मालां गन्धादीनि समर्प्य ।गीतादिनोत्सवं कृत्वा श्रीकृष्णं प्रार्थयेदिदम्
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ।इयं सांवत्सरी पूजा तवास्तु गरुडध्वज !
वनमालां यथा देव ! कौस्तुभं सततं हृदि ।तद्बद्दामनकीं मालां पूजाञ्च हृदये वहेत्यादि
भगवन्तं प्रणम्याथ गुरुं संपूज्य भक्तितः ।संपूज्य ब्राह्मणान् शक्त्या भूञ्जीत सह बन्धुभिः
पारणाहे लभ्येत द्वादशी घटिकापि चेत् ।तदा त्रयोदशी ग्राह्या पवित्रा दमनार्पणे
कृष्णे दमनारोपः स्यान्मधौ विघ्नतो यदि ।वैशाख्यां श्रावणे मासि कर्त्तव्यं वा तदर्पणम्
अतएवोक्तं ब्रह्मणा देवीपुराणे ।चैत्रादौ कारयेत् पूजां सम्यग्वत्स ! यथाविधि
गन्धधूपार्घ्यनैवेद्यैर्म्माल्यैर्द्दमनकोद्भवैः ।सहोमं पूजयेद्देवं सर्व्वान् कामानवाप्नुयात्
सर्व्वतीर्थाभिषेकस्य फलं प्राप्नोति मानवः
”इति श्रीहरिभक्तिविलासे १४ विलासः