| YouTube Channel

दन्श (danza)

 
धातुप्रदीपः
Sanskrit
दन्शँ दन्श दंशने
- दशति दश्यते ददंश ददंशतुः दंष्टा अदाङ्क्षीत् दन्दश्यते दष्टम् दष्ट्वा दंष्ट्रा ।। 997 ।।
शब्दकल्पद्रुमः
Sanskrit
दन्श, दंशने इति कविकल्पद्रुमः
(भ्वां-परं-सकं-अनिट् ।) औ, अदाङ्क्षीत् दशतिविम्बफलं शुकशावकः दंशनमित्यनुस्वारहीनंपठित्वा तन्निर्द्देशात् अनटि नकारलोप इत्याहुः ।अतएव दशनो दन्तः नाहिर्द्दंशयते कञ्चि-द्विद्यया गरुडाख्यया इति हलायुघः भट्ट-मल्लमते दंशनमिह सन्नाहः तेन अदंशयन्न-वहितशौर्य्यदंशनास्तनूरयं नय इति वृष्णिभू-भृतः इति माघः तनूः कवचवृताश्चक्रुरि-त्यर्थः अत्र परस्मैपदं चिन्त्यमिति वल्लभः ।वस्तुतस्तु दंशं फरोतीति ञौ साध्यम् इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
दन्श हिंसने रदकरणकव्यापारभेदे दंशने (कामडान)भ्वा०
पर०
सक०
अनिट् दशति अदाङ्क्षीत् ददंश “करौनिरोद्धुर्दशति स्म केवलम्” “कटुकीटान् दशतः सतःक्वचित्” नैष० दृष्टः दंष्ट्वा
क्षीरतरङ्गिणी
Sanskrit
दन्शँ दन्श दशने
-(अर्थविवरणम्) दशनं दन्तकर्म
दन्शसन्जस्वन्जां शपि (तु0 6425) इति नलोपः- दशति लुपसद (3124) इति भावगर्हायां यङ्-जपजभदहदश (7486) इति अनुस्वारागमः दन्दश्यते यजजपदशां यङः-( 32116) इत्यूकः दन्दशूकः कर्मण्यण् (321) वृषदंशो मार्जारः दशने (धातुसूत्र 1716) इति निर्देशात् नलोपः उपदंशस्तृतीयायाम् (3447) इति णमुल् मूलकोपदशं भुङ्क्ते दाम्नी (31182) इति ष्ट्रन् दंष्ट्रा नुदंशो गुणश्च (तु0 उ0 1149 नारा0) दश षिद्भिदादिभ्योऽङ् (33104) दशा वर्तिरवस्था च, दशा वस्त्रान्तवायवाः 960
धातुवृत्तिः
Sanskrit
दन्शँ दंश (अर्थः) दंशने
दंशनं द्रष्ट्राव्यापारः अत एव निर्देशादनुनासिकलोप इति स्वामी (दशति) तत्रापि "दंशसञ्ज''इति अनुनासिकलोपः शपि (ददंश ददंशतुः ददंशिथ ददंष्ठ ददंशिव दंष्टा दङ्क्ष्यति दशतु अदशत् दशेत् दश्यात् ) "किदाशिषि'' इति यासुटः कित्त्वादनुनासिकलोपः ( अदाङ्क्षीत् अदांष्टाम् ) "वदव्रज'' इति वृद्धिः ( दिदङ्क्षति दन्दश्यते ) "लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्'' इति यङ् भावगर्हायाम् "जपजभदहदश'' इत्यभ्यासस्य नुक् ( दन्दंशीति दन्दंष्टि दन्दष्टः ) यङ्विधौ नुग्विधौ दशेति कृतनलोपस्य निर्देशात् यङ्लुकि अक्ङित्यपि लोपो नुक् भवति ( दंशयति अददंशत् दंदशूकः ) "यजजपदशां यङः'' इति यङन्तादूकप्रत्यये "अतो लोपः'' "यस्य हलः'' इत्यल्लोपयलोपौ ( दंष्ट्रा )''दाम्नी" इत्यादिना ष्ट्रन् अजादिषु दर्शनात् टाप्, अत्रैव पाठात् नलोपाभावश्च ष्ट्रनि, दशेति नलोपनिर्देशस्तु करणे ल्युडर्थः, दशनइति, दंष्ट्री "व्रीह्यादिभ्यश्च'' इति मत्वर्थीय इनिः मूल्कोपदंशं भुङ्क्ते, मूलकेन उपदंशमिति वा "उपदंशस्तृतीयायाम्'' इति णमुल् "तृतीयाप्रभृतीनि'' इति समासविकल्पः वासरूपविधिना क्त्वापि भवति मूलकेनोपदश्यते उक्तं सर्वत्रैवात्र प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवतीति' मूलकोपदंशमित्यत्र मूलकस्य भूजिनैवान्वयो दंशिना ह्यत्र मूलकेन करणेनान्य उपदश्य भुङ्क्त इत्यर्थः ननु तेन तृतीयान्तस्योपदशिना सामर्थ्याभावात् उपपदत्वं नेति कथं प्रत्ययः, वचनं दशनोपदंशं भुङ्क्तइत्यत्र सावकाशमुच्यते यद्यत्रैव स्यात् करण इत्येव ब्रूयात् तृतीयायामिति वचनात्तु सर्वत्र भवष्यिति तद्धि तृतीयान्तस्योपदशिना आर्थेऽप्यन्वये यथा स्यादिति, अस्ति चात्रार्थोऽन्वयः, कर्मापेक्षस्योदंशेः सन्निहितेन मूलकेन संबन्धात् 969
कृदन्तरूपमाला
Sanskrit
1 {@“दन्श दशने”@} 2 “दशनम् = दंष्ट्राव्यापारः।
हनुमूलगताः स्थूलदन्ताः दंष्ट्राः।
तद्व्यापारः क्षत- क्रियादिरूप इत्यर्थः।” इति बालमनोरमा।
“दंशने दशतीति स्यात् तत्र दंशयते णिचि।।
भाषणे दंशयेत् …।” 3 इति देवः।
4 दंशकः-शिका, दंशकः-शिका, 5 दिदङ्क्षकः-क्षिका, 6 दन्दशकः-दंदशकः-शिका
7 दंष्टा-दंष्ट्री, दंशयिता-त्री, दिदङ्क्षिता-त्री, दन्दशिता-दंदशिता-त्री
8 दशन्-न्ती, दंशयन्-न्ती, दिदङ्क्षन्-न्ती
-- दङ्क्ष्यन्-न्ती-ती, दंशयिष्यन्-न्ती-ती, दिदङ्क्षिष्यन्-न्ती-ती
-- -- दंशयमानः, दंशयिष्यमाणः, -- दन्दश्यमानः, दन्दशिष्यमाणः
9 प्रधट्-प्रधड्-प्रदशौ-प्रदशः
-- -- दष्टम्-दष्टः-दष्टवान्, दंशितः, दिदङ्क्षितः, दन्दशितः-तवान्
10 दंशः, 11 दशनः, 12 वृषदंशः, दंशः, दिदङ्क्षुः, 13 दन्दंशः, 14 दन्दशूकः 15
दंष्टव्यम्, दंशयितव्यम्, दिदङ्क्षितव्यम्, दन्दशितव्यम्
दंशनीयम्, दंशनीयम्, दिदङ्क्षणीयम्, दन्दशनीयम्
दंश्यम्, दंश्यम्, दिदङ्क्ष्यम्, दन्दश्यम्
16 ईषद्दंशः-दुर्दंशः-सुदंशः
-- -- दश्यमानः, दंश्यमानः, दिदङ्क्ष्यमाणः, दन्दश्यमानः
दंशः, दंशः, दिदङ्क्षः, दन्दशः
दंष्टुम्, दंशयितुम्, दिदङ्क्षितुम्, दन्दशितुम्
17 दशा-दष्टिः, दंशना, दिदङ्क्षा, दन्दशा
दंशनम्- 18 दशनम् 19, 20 दंष्ट्रः-दंष्ट्रा, दंशनम्, दिदङ्क्षणम्, दन्दशनम्
21 दष्ट्वा, दंशयित्वा, दिदङ्क्षित्वा, दन्दशित्वा
विदश्य, विदंश्य, विदिदङ्क्ष्य, प्रदन्दश्य
22 मूलकोपदंशम्, मूलकेनोपदंशम्, मूलकेनोपदश्य वा भुङ्क्ते।
23 कालखण्डोपदंशम्।
दंशम् दष्ट्वा दंशम् दंशयित्वा दिदङ्क्षम् दिदङ्क्षित्वा दन्दशम्
दन्दशित्वा २।
प्रासङ्गिक्यः
01
=>
(८१७)
02
=>
(१-भ्वादिः-९८९। सक। अनि। पर।)
03
=>
(श्लो। १६४-१६५)
04
=>
[[१। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु।’ इति वचनात् नोपधोऽयं धातुः। नका- रस्य ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारः। एवं सर्वत्र ज्ञेयम्।]]
05
=>
[[२। सनि, ‘व्रश्चंभ्रस्ज--’ (८-२-३६) इत्यादिना शकारस्य षकारे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, षत्वे, अनुस्वारे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति भावगर्हायां यङ्। ‘अनिदिताम्--’ (६-४-२४) इति नकारलोपः। ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इति अभ्यासस्य नुगागमः। ‘स पदान्तवद्वाच्यः’ (वा। ७-४-८५) इत्यनेन पदान्तवद्भावः। ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र रूपद्वयं ज्ञेयम्।]]
07
=>
[[४। तृचि, शकारस्य ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे नकारस्यानुस्वारे, ष्टुत्वे रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
08
=>
[[५। शपि, ‘दंशसञ्जस्वञ्जां शपि’ (६-४-२५) इत्युपधानकारस्य लोपः।]]
09
=>
[[६। क्विपि, नकारलोपे, षत्वधत्वजश्त्वचर्त्वविकल्पेषु रूपमेवं भवति।]]
10
=>
[पृष्ठम्०७१९+ ३१]
11
=>
[[१। ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बाहुलकात् कर्तरि ल्युट्। यद्वा, नन्द्या- देराकृतिगणत्वात् (३-१-१३४) कर्तरि ल्युः। ‘दंशदशने’ इति धातुपाठनिर्देशात्, ‘दाम्नीशस--’ (३-२-१८२) इत्यत्र दश इति नकारलोपघटितत्वेन निर्देशाद्वा क्ङिद्भिन्नप्रत्ययेऽपि क्वचिन्नलोपो भवतीति ज्ञायते। अतः पृषोदरादित्वात् (६-३-११०) नकारलोपो भवति।]]
12
=>
[[२। वृषं दशतीति वृषदंशः = मार्जारः। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
13
=>
[[३। यङ्न्तात् पचाद्यचि, यङो लुकि, उपधानकारलोपाभावे रूपमेवम्।]]
14
=>
[[४। ‘वाऽसरूपोऽस्त्रियाम्’ (३-१-९४) इत्यनेन असरूपापवादप्रत्ययत्वात् उत्सर्गस्य वा बाधकः, यङन्तात् ‘यजजपदशां यङः’ (३-२-१६६) इत्यूकप्रत्ययः। दन्द- शूकः = सर्पः।]]
15
=>
[[आ। ‘भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम।।’ शि। व। २०। ५८।]]
16
=>
[[५। ‘ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ (३-३-१२६) इति खल्। ‘इह सामान्योक्तावपि योग्यताबलादयं विषयविभागो लभ्यते--कृच्छ्रार्थे दुरि, अकृच्छ्रे इतरयोः इति।’ इति बृहच्छब्देन्दुशेखरे।]]
17
=>
[[६। भिदादेराकृतिगणत्वेन, तत्र (३-३-१०४) पाठादङि, उपधानकारलोपे दशा इति क्षीरतरङ्गिणी। दशा = वर्तिरवस्था वस्त्रान्तावयवश्च। भिदादिष्वस्यादर्शनात् क्तिनि--दष्टिरिति रूपमिति बोध्यम्।]]
18
=>
[[७। करणे ल्युटि, ‘दंश दशने’ इति धातुपाठबलात् नकारलोपे रूपमेवम्। ‘दंशेः करणे ल्युटि नलोपो वाच्यः’ इति नलोपः।’ इति धा। का। व्याख्याने (२-४०) दृश्यते। तादृशं वचनं तु भाष्यादौ दृश्यते।]]
19
=>
[[B। ‘कृत्वा कृत्यं दशनांशुगौरं कृष्णं ययौ दैत्यनिदाघमेघम्।।’ धा। का। २। ४०।]]
20
=>
[[८। ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (३-२-१८२) इति करणे ष्ट्रन् प्रत्ययः। प्रत्ययस्य षित्त्वेऽपि अजादिषु (४-१-४) पाठात् टाबेव। ङीष्।]]
21
=>
[पृष्ठम्०७२०+ २३]
22
=>
[[१। ‘उपदंशस्तृतीयायाम्’ (३-४-४७) इति णमुल्। ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’ (२-२-२१) इति समासविकल्पः। वाऽसरूपन्यायेन क्त्वाऽपि भवति। तेन मूल- केनोपदश्य इत्यपि साधुः।]]
23
=>
[[आ। ‘स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्भं व्यष्त्रणद् व्यस्वनच्च।।’ शि। व। १८। ७७।]]