| YouTube Channel

दन्त्यरिष्ट (dantyariSTa)

 
वाचस्पत्यम्
Sanskrit
दन्त्यरिष्ट
न०
दन्त्यम् अरिष्टं रिष्टाभावो यत्रौषधे चक्रद-त्तोक्ते अर्शोध्ने औषधभेदे ।“दन्ती चित्रकमूलानि जलद्रोणे विपाचयेत् त्रिपलंत्रिफलायाश्च दलानां तत्र दापयेत् तुलां गुडस्यतत्तिष्ठेन्मासार्द्धं घृतभाजने तन्मात्रया पिबेन्नित्य-मर्शोभ्यो विप्रमुच्यते ग्रहणीपाण्डुरोगघ्नं वातवर्च्चो-ऽनुलोमनम् दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिदं विदुः”