| YouTube Channel

दन्तरोगः (dantarogaH)

 
Apte Hindi
Hindi
दन्तरोगः
पुं*
दन्तः- रोगः -
दाँत की पीड़ा
शब्दकल्पद्रुमः
Sanskrit
दन्तरोगः,
पुं,
(दन्तस्य रोगः ।) रदनामयः ।तन्निदानादि दन्तशब्दे द्रष्टव्यम् तस्यौषधं यथा, “काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ! ।चर्व्वित्वा दन्तरोगाणां विनाशो हि भवेद्धर !
”दन्तरोगाणामित्यत्र दन्तकीटानामिति पुस्तका-न्तरे पाठः
इति गारुडे १८९ अध्यायः
अपि गारुडे १९८ अध्याये ।“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम्
सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।भुजग्रन्थि विडं मुस्तं मधु शुक्रं चतुर्गुणम्
मातुलुङ्गरसञ्चैव कदलीरसमेव ।तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ।वाधिर्य्य कर्णनादश्च पूयस्रावश्च दारुणः ।पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्
”अन्यच्च ।“तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् ।द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गणैः
लोध्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः ।चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम्
दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् ।शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम्
हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् ।लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम्
इति लाक्षाद्यं तैलम् ।जयेद्विस्रावणैः स्विन्नमबलं कृमिदन्तकम् ।तथा पीतैर्व्वातघ्नैः स्नेहगण्डूषधारणैः
भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ।कृमिदन्तापहं कोष्णं हिङ्गुदन्तान्तरे स्थितम्
बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः ।गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमकः
नीली वायसजङ्घा कटुतुम्बीमूलमेकैकम् ।संचूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य ।निर्यूहाश्चानिलाघ्नानां दन्तहर्षप्रमर्दनाः
त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कवलइत्यर्थः ।स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव ।पेया रसयवाग्वश्च क्षीरसन्तानिकाघृतम्
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ।अत्र दन्तहर्षे ।अच्छिद्रदन्तमूलानि शर्करामुद्धरेद्भिषक् ।लाक्षाचूर्णैर्म्मधुयुतैस्ततस्तान् प्रतिसारयेत्
दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः ।कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता
अत्र दन्तशर्करायाम् एषा क्रिया दन्तहर्ष-क्रिया ।फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ।तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत्
”इति भावप्रकाशः