| YouTube Channel

दन्तरोग (dantaroga)

 
Monier Williams Cologne
English
दन्त—रोग
m.
tooth-ache,
Suśr.
iv, 22,
Apte Hindi
Hindi
दन्तरोगः
पुं*
दन्तः- रोगः -
दाँत की पीड़ा
Shabdartha Kaustubha
Kannada
दन्तरोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮುಕಖರೋಗಗಳಲ್ಲೊಂದು ಭೇದ /ಒಸಡು ರೋಗ /ಒಸಡಿನ ಊತ
L R Vaidya
English
daMta-roga {% m. %} tooth-ache.
शब्दकल्पद्रुमः
Sanskrit
दन्तरोगः,
पुं,
(दन्तस्य रोगः ।) रदनामयः ।तन्निदानादि दन्तशब्दे द्रष्टव्यम् तस्यौषधं यथा, “काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ! ।चर्व्वित्वा दन्तरोगाणां विनाशो हि भवेद्धर !
”दन्तरोगाणामित्यत्र दन्तकीटानामिति पुस्तका-न्तरे पाठः
इति गारुडे १८९ अध्यायः
अपि गारुडे १९८ अध्याये ।“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम्
सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।भुजग्रन्थि विडं मुस्तं मधु शुक्रं चतुर्गुणम्
मातुलुङ्गरसञ्चैव कदलीरसमेव ।तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ।वाधिर्य्य कर्णनादश्च पूयस्रावश्च दारुणः ।पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्
”अन्यच्च ।“तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् ।द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गणैः
लोध्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः ।चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम्
दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् ।शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम्
हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् ।लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम्
इति लाक्षाद्यं तैलम् ।जयेद्विस्रावणैः स्विन्नमबलं कृमिदन्तकम् ।तथा पीतैर्व्वातघ्नैः स्नेहगण्डूषधारणैः
भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ।कृमिदन्तापहं कोष्णं हिङ्गुदन्तान्तरे स्थितम्
बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः ।गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमकः
नीली वायसजङ्घा कटुतुम्बीमूलमेकैकम् ।संचूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य ।निर्यूहाश्चानिलाघ्नानां दन्तहर्षप्रमर्दनाः
त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कवलइत्यर्थः ।स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव ।पेया रसयवाग्वश्च क्षीरसन्तानिकाघृतम्
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ।अत्र दन्तहर्षे ।अच्छिद्रदन्तमूलानि शर्करामुद्धरेद्भिषक् ।लाक्षाचूर्णैर्म्मधुयुतैस्ततस्तान् प्रतिसारयेत्
दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः ।कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता
अत्र दन्तशर्करायाम् एषा क्रिया दन्तहर्ष-क्रिया ।फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ।तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत्
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
दन्तरोग
पु०
त० मुखरोगान्तर्गते दन्तदन्तमूलगते रोग-भेदे रोगः सुश्रुते उक्तो यथा ।“अथातो मुखरोगाणां निदानं व्याख्यास्यामः मुख-रोगाः पञ्चषष्टिः सप्तखायतनेशु तत्रायतनान्योष्ठौदन्तमूलानि दन्ता जिह्वा तालुकण्ठः “सर्वाणिचेति तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेषु, अष्टौदन्तेषु, इति चोपक्रम्योक्तं यथा ।“दन्तमूलगतास्तु शीतादो दन्तपुप्पुटको दन्तवेष्टकः ३शौषिरो महाशौषिरः परिदर उपकुशो दन्तवैदर्भो ८वर्द्धनो ऽधिमांसो १० नाड्यः १५ पञ्चेति” इत्युद्दिश्य “शोणितंदन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्त्तते दुर्गन्धीनि सकृष्णानिप्रक्लेदीनि मृदूनि दन्तमांसानि शीर्य्यन्ते पचन्तिच परस्परम् शीतादो नाम व्याधिः कफशो-णितसम्भवः दन्तयोस्त्रिषुं वा यस्य श्वयथुः सरुजोमहान् दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः ।स्रवन्ति पूयरुधिर वला दन्ता भवन्ति दन्तवेष्टःस विज्ञेयो दुष्टशोणितसम्भवः श्वयथुर्दन्तमूलेषु रुजा-वान् कफरक्ततः लालास्रावी विज्ञेयः कण्डू-मान् शौषिरो गदः दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्य-वदीर्य्यते दन्तमांसानि पच्यन्ते मुखञ्च परिपी-ड्यते यस्मिन् सर्वजो व्याधिर्महाशौषिरसंज्ञकः ।दन्तमांसानि शीर्य्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् ।पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः वेष्टेषुदाहः पाकश्च तेभ्यो दन्ताश्चलन्ति आघट्टिताःप्रस्रवन्ति शोणितं मन्दवेदनाः आध्मायन्ते स्रुतेरक्ते मुखं पूति जायते यस्मिन्नुपकुशः सस्यात्पित्तरक्तकृतो गदः घृष्टेषु दन्तमूलेषु संरम्भोजायते महान् भवन्ति चलादन्ताः वैदर्भो-ऽभिघातजः मारुतेनाधिको दन्तो जायते तीव्र-वेदनः वर्द्धनः मतो व्याधिर्जाते रुक्च प्रशा-म्यति हातव्ये पश्चिमे दन्ते महान् शोथो महा-रुजः लालास्रावो कफकृतो विज्ञेयः सोऽधिमांसकः १० ।दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः १५ “दन्त-गतास्तु दासनः क्रिमिदन्तको दन्तहर्षो भञ्जनकः ४दन्तशर्करा कपालिका श्यावदन्तो हनुमोक्ष श्चेति ।दाल्यन्ते बहुधा दन्ता यस्मिंस्त्रीव्ररुगन्विताः ।दालनः इति ज्ञेयः सदागतिनिमित्तजः कृष्ण-श्छिद्री चलः स्रावी ससंरम्भो महारुजः अनि-मित्तरुजो वाताद्विज्ञेयः क्रमिदन्तकः दशनाः शीत-मुष्णञ्च सहन्ते स्पर्शनं यत्र तं दन्तहर्षन्तुव्याधिं विद्यात्समीरणात् वक्त्रं वक्रं भवेद्यस्मिन्दन्तभङ्गश्च तीव्ररुक् कफवातकृतो व्याधिः भञ्जन-कसंज्ञितः शर्करेव स्थिरीमूतो मलोदन्तेषु यस्यवै सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा ।दलन्ति दन्तवल्कानि यदा शर्करया सह ज्ञेयाकपालिका सैव दशनांनां विनाशिनी योऽसृग्मि-श्रेण पित्तेन दग्धो दन्तस्त्वशेषतः श्यावतां नीलतांवापि गतः श्यावदन्तकः वातेन तैस्तैर्भावैस्तुहनुसन्धिर्विसंहतः हनुमोक्ष इति ज्ञेयो व्याधिर-र्दितलक्षणः ८”