| YouTube Channel

दन्तधावनं (dantadhAvanaM)

 
शब्दकल्पद्रुमः
Sanskrit
दन्तधावनं,
क्ली,
(दन्तानां धावनम् ।) दन्त-मार्ज्जनम् (दन्तानां धावनं यस्मात् ।) दन्त-काष्ठम् यथा, गारुडे २१४ अध्याये ।“उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् ।ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्व्वकम्
मुखे पय्युषिते नित्यं भवत्यप्रयतो नरः ।तस्मात् सर्व्वप्रयत्नेन भक्षयेद्दन्तधावनम्
कदम्बविल्वखदिरकरवीरवटार्ज्जुनाः ।तगरं बृहती जातिकरञ्जार्कातिमुक्तकाः
जम्बूमघूकापामार्गशिरीषोडुम्बराशनाः ।क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने
कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः ।प्रक्षाल्य भुक्त्वा शुचौ देशे त्यक्त्वा तदाचमेत्
अमावास्यां तथा षष्ठ्यां नवम्यां प्रतिपद्यपि ।वर्ज्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे
अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ ।अपां द्वादशगण्डूषैः कुर्व्वीत मुखशोधनम्
”दन्तशुद्धिः तस्य विधिर्यथा, --“प्रातर्भुङ्क्त्वा मृद्बग्रं कषायकटुतिक्तकम् ।भक्षयेद्दन्तपवनं दन्तमांसान्यवाधयन्
*
तस्य काष्ठानि यथा, --“केऽप्यत्र करवीराम्रकरञ्जवकुलाशनान् ।दन्तकाष्ठार्थमन्ये तु सर्व्वान् कण्टकिनोऽभ्यधुः
खदिरश्च कदम्बश्च करञ्जश्च वटस्तथा ।तिन्तिडी वेणुपृष्ठञ्च आम्रनिम्बौ तथैव
अपामार्गश्च विल्वश्च अर्कश्चोडुम्बरस्तथा ।एते प्रशस्ताः कथिता दन्तधावनकर्म्मणि
*
तस्य निषिद्धकाष्ठानि यथा, --“गुवाकतालहिन्तालखर्ज्जूरैः केतकीयुतैः ।नारिकेलेन ताड्या कुर्य्याद्दन्तधावनम्
*
तस्य दिग्भेदेन शुभाशुभफलं यथा, --“मृत्युः स्याद्दक्षिणास्येन पश्चिमास्येन चामयः ।पूर्व्वास्येनोत्तरास्येन सम्पदो दन्तधावनात्
*
तस्य तिथिविशेषे निषेधो यथा, --“प्रतिपद्दर्शषष्ठीषु नवम्येकादशीषु ।दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम्
*
दन्तधर्षणानन्तरं चक्षुःसेचनं यथा, --“दन्तानूर्द्ध्वमधो घृष्ट्वा प्रातः सिञ्चेच्च लोचने ।तोयपूर्णमुखस्तेन दृष्टिराशु प्रसीदति
*
रोगविशेषे दन्तकाष्ठवर्ज्जनं यथा, --“अर्द्दिती कर्णशूली दन्तरोगी नवज्वरी ।शोषी कासी मूर्च्छार्त्तो दन्तकाष्ठं विवर्ज-येत्
*
तस्य गुणा यथा, --“निहन्ति वक्त्रवैरस्यं जिह्वादन्ताश्रितं मलम् ।आरोग्यं रुचिमाधत्ते सद्यो दन्तविशोधनम्
”इति राजवल्लभः
*
“कृतशौचस्ततः प्राज्ञः कुर्य्याद्दन्तस्य धावनम् ।जिह्वाया मार्जनञ्चापि रसालच्छदनादिभिः
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा ।न दन्तधावनं कुर्य्यात् कुर्य्याच्चेन्नारकी भवेत्
मध्यमानामिकाभ्याञ्च वृद्धाङ्गुष्ठेन द्बिजः ।दन्तस्य धावनं कुर्य्यात् तर्जन्या कदाचन
अश्वत्थवटविल्वानां धात्र्याः काष्ठिकया बुधः ।न दन्तधावनं कुर्य्यात्तथेन्द्रसुरसस्य
नित्यक्रियाफलं प्रेप्सुस्त्वरया दन्तधावनम् ।प्रभाते कुरुते प्राज्ञः सूर्य्योदयविवर्ज्जिते
सूर्य्योदये द्विजश्रेष्ठ ! यः कुर्य्याद्दन्तधावनम् ।नित्यक्रियाफलं तस्य सर्व्वमेव विनश्यति
यः स्नानसमये कुर्य्यात् जैमिने ! दन्तधावनम् ।निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः
दन्तस्य धावनं कुर्य्याद्यो मध्याह्नापराह्णयोः ।तस्य पुष्पं गृह्णन्ति देवताः पितरो जलम्
स्नानकाले पुष्करिण्यां यः कुर्य्याद्दन्त धावनम् ।तावज्ज्ञेयः चण्डालो यावद्गङ्गां पश्यति
भगवत्युदिते सूर्य्ये यः कुर्य्याद्दन्त धावनम् ।तद्दन्तकाष्ठीं पितरो भुक्त्वा गच्छन्ति दुःखिनः
उपवासदिने विप्र ! पितृश्राद्बदिने तथा ।न तत्फलमाप्नोति दन्तधावनकृन्नरः
प्रभाते मार्जयेद्दन्तान् वाससा रसनां तथा ।कुर्य्याद्द्वादश विप्रेन्द्र ! कललानि जलैर्बधः
उपवासे पितृश्राद्धे विधिनानेन जैमिने ! ।दन्तधावनकृन्मर्त्यः संपूर्णं लभते फलम्
”इति पाद्मे क्रियायोगसारः