| YouTube Channel

दन्तच्छदः (dantacchadaH)

 
शब्दकल्पद्रुमः
Sanskrit
दन्तच्छदः,
पुं,
(दन्ताश्छाद्यन्तेऽनेनेति छद संवरणे+ णिच् + “पुंसि संज्ञायां घः प्रायेण ।” ।११८ इति घः “छादेर्घेऽद्व्युपसर्गस्य ।” ।४ ९६ इति ह्रस्वः ।) ओष्ठः इति हलायुधः
(यथा, ऋतुसंहारे हेमन्तवर्णनायाम् १२ ।“दन्तच्छदैर्दन्तविधातचिह्नैःस्तनैश्च पाण्यग्रकृताभिलेखैः ।संसूच्यते निर्द्दयमङ्गनानांरतोपभोगो नवयौवनानाम्
”)