| YouTube Channel

दध्यन्च् (dadhyanc)

 
वाचस्पत्यम्
Sanskrit
दध्यन्च्
पु०
दधिं धारकमञ्चति अन्च--क्विप् अथर्वर्षिपुत्रेदधीचौ मुनिभेदे “दध्यङ्ङाथर्वणस्त्वष्ट्रे” भाग० ६६ ५१“स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्”भाग० ५५ “यामथर्वा मनुष्पिता दध्यङ्धियमत्नतइत्यृचमधिकृत्य निरुक्ते तु १२ ३३ अन्या निरुक्तिरुक्ता“दध्यङ्प्रत्यक्तो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमितिवा” “दध्यङ् नन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र य-दीमुवाच” ऋ० ११६ १२ आथर्वणः अथर्वणः पुत्रोदध्यङ् एतत्संज्ञ ऋषिरवस्य शीर्ष्णा युष्मत्नामर्थ्येनप्रतिहितेन शिरसा वाँ युवाभ्यामीमिमां मधुविद्यां यद्यदा खलु प्रोवाच प्रोक्तवान् तदानीमश्वस्य शिरसःसन्धानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसन्धानलक्षणंच यद्भवदीयं कर्म तदाविष्कृणोनीत्यर्द्धः अत्रेयमा-ख्यायिका “इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यांचोपदिश्यं यदीमामनस्मै वक्ष्यसि शिरस्ते छेत्स्यामी-त्युवाच ततोऽश्विनावश्वस्य शिरश्छित्वा दधीचः शिरः-प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्तां तेन चदध्यङ् ऋचः सामानि यजूंषि प्रवर्ग्यविषयाणिमधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास ।तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् अथाश्विनौतस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति शाट्यायन-वाजसनेययोः प्रपञ्चेनोक्तम् तस्य टादावजादौ दधीचःदधीचा इत्यादि ततः स्वार्थे अण् इञ् वा पृषो०वृद्ध्यभावे दधीच दधीचि इति रूपमित्यवधेयम्