| YouTube Channel

दधीचिः (dadhIciH)

 
Wordnet
Sanskrit
Synonyms:
दधीचिः
noun
एकः वैदिकः ऋषिः यः अथर्वणः पुत्रः।
"देवानां कल्याणार्थे दधीचिः स्वस्य अस्थिदानम् अकरोत्।"
शब्दकल्पद्रुमः
Sanskrit
दधीचिः,
पुं,
मुनिविशेषः अथर्व्वमुनेरौरसात्कर्द्दमकन्यायां शान्तिनाम्न्यां जातः वृत्र-वधार्थं देवैरस्यास्थ्ना वज्रं निर्म्मितम् इतिश्रीभागवतम्
यथा, --“ऋतेऽस्थिभ्यो दधीचस्य निहन्तुं त्रिदशद्बिषः ।तस्मात् यत्नादृषिश्रेष्ठो याच्यतां सुरसत्तमाः
दधीचेऽस्थीनि देहीति तैर्व्वधिष्यथ दानवान् ।तत् श्रुत्वा सहसा देवैर्याचितो मुनिभिस्तथा
ददौ चास्थीनिं देवेभ्यो दधीचिः सुमनास्तदा ।प्राणायामं ततः कृत्वा देहं त्यक्त्वा सुभास्वरान्
सर्व्वलोकान् क्षयान् प्राप्तो येभ्यो नावर्त्तनं पुनः ।तस्यास्थिभिरथो शक्रः प्रहृष्टः सुमनास्तथा
कारयामास दिव्यानि तानि प्रहरणान्युत ।वज्रासिशूलचक्रञ्च परिघा विविधा गदाः
विश्वकर्म्मा सुराणान्तु परिघाद्यायुधानि
”इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः