| YouTube Channel

दधिधेनुः (dadhidhenuH)

 
शब्दकल्पद्रुमः
Sanskrit
दधिधेनुः,
स्त्री,
(दधिनिर्म्मिता धेनुः ।) दानार्थ-दध्यादिनिर्म्मिता धेनुः यथा, वराहपुराणे ।“दधिधेनोर्म्महाराज ! विधानं शृणु साम्प्रतम् ।अनुलिप्ते महीभागे गोमयेन नराधिप !
गोचर्म्ममात्रे तु पुनः पुष्पप्रकरशोभिते ।कुशैरास्तीर्य्य वसुधां कृष्णाजिनकुशोत्तराम्
दधिकुम्भं सुसंस्थाप्य सदा धान्यचयोपरि ।चतुर्थांशेन वत्सन्तु सौवर्णमुखमण्डितम्
आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम् ।ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते
क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम् ।पुच्छदेशोपविष्टस्तु मुद्रिकाकर्णमात्रकैः
पादुकोपानहौ छत्रं दत्त्वा मन्त्रमनुस्मरेत् ।दधिक्राव्नेतिमन्त्रेण दधिधेनुं प्रदापयेत्
एवं दधिमयां धेनुं दत्त्वा राजर्षिसत्तम ! ।एकाहारो दिनं तिष्ठेद्दघ्ना नृपनन्दन !
यजमानो वसेद्राजन् त्रिरात्रञ्च द्बिजोत्तम ! ।दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम्
यत्र क्षीरवहा नद्यो यत्र पायसकर्द्दमाः ।मुनय ऋषयः सिद्धास्तत्र गच्छन्ति धेनुदाः
इदं श्रालयेद्भक्त्या शृणुयाद्वापि मानवः ।सोऽश्वमेधफलं प्राप्य विष्णुलोकं गच्छति