| YouTube Channel

दधिधेनु (dadhidhenu)

 
शब्दसागरः
English
दधिधेनु
f.
(-नुः) A quantity of curds given away at any sacrifice.
E.
दधि,
and धेनु a cow.
Yates
English
दधि-धेनु (नुः) 2.
f.
A quantity of
curds given away at a sacrifice.
Wilson
English
दधिधेनु
f.
(-नुः) A quantity of curds given away at any sacrifice.
E.
दधि, and धेनु a cow.
Monier Williams Cologne
English
दधि—धेनु
f.
a cow represented by दधि (offered to priests),
VarP.
cvi
BhavP.
ii, 168.
शब्दकल्पद्रुमः
Sanskrit
दधिधेनुः,
स्त्री,
(दधिनिर्म्मिता धेनुः ।) दानार्थ-दध्यादिनिर्म्मिता धेनुः यथा, वराहपुराणे ।“दधिधेनोर्म्महाराज ! विधानं शृणु साम्प्रतम् ।अनुलिप्ते महीभागे गोमयेन नराधिप !
गोचर्म्ममात्रे तु पुनः पुष्पप्रकरशोभिते ।कुशैरास्तीर्य्य वसुधां कृष्णाजिनकुशोत्तराम्
दधिकुम्भं सुसंस्थाप्य सदा धान्यचयोपरि ।चतुर्थांशेन वत्सन्तु सौवर्णमुखमण्डितम्
आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम् ।ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते
क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम् ।पुच्छदेशोपविष्टस्तु मुद्रिकाकर्णमात्रकैः
पादुकोपानहौ छत्रं दत्त्वा मन्त्रमनुस्मरेत् ।दधिक्राव्नेतिमन्त्रेण दधिधेनुं प्रदापयेत्
एवं दधिमयां धेनुं दत्त्वा राजर्षिसत्तम ! ।एकाहारो दिनं तिष्ठेद्दघ्ना नृपनन्दन !
यजमानो वसेद्राजन् त्रिरात्रञ्च द्बिजोत्तम ! ।दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम्
यत्र क्षीरवहा नद्यो यत्र पायसकर्द्दमाः ।मुनय ऋषयः सिद्धास्तत्र गच्छन्ति धेनुदाः
इदं श्रालयेद्भक्त्या शृणुयाद्वापि मानवः ।सोऽश्वमेधफलं प्राप्य विष्णुलोकं गच्छति
वाचस्पत्यम्
Sanskrit
दधिधेनु स्त्री दानार्थं कल्पितदधिकुम्भनिर्मिते धेनुभेदे त-द्विधानं हेमा० दा० स्कन्दपु० उक्तो यथा“दधिधेनोमहाराज! विधानं शृणु साम्प्रतम् ।अनुलिप्ते महीभागे गोमयेन नराधिप! गोचर्म्म-मात्रन्तु पुनः पुष्पप्रकरसंयुतम् कुशैरास्तीर्य्य वसुधांकृष्णाजिनकृतास्तराम् दधिकुम्भञ्च संस्थाप्य सप्तधान्यस्यचोपरि चतुर्थांशेन वत्सन्तु सौवर्णमुखसंयुतम् ।प्रशस्तपत्रश्रवणां मुक्ताफलमयक्षणाम् चन्दनागुरुशृङ्गींच मुखं वै गन्धमालिकम् जिह्वा शर्करया राजन्!घ्राणं श्रीखण्डकं तथा फलमूलमया दन्ताः सित-सूत्रस्य कम्बलाः ताम्रपृष्ठा दर्भरोमा पुच्छं सूत्रमयंतथा स्वर्णशृङ्गीं रौप्यखुरीं नवनीतमयस्तनीम् इक्षु-पादां सुसस्कृत्य सर्वाभरणभूषिताम् आच्छाद्य वस्त्र-युग्मेन पुष्पगन्धैस्तु पूजिताम् ब्राह्मणाय कुलीनायसाधुवृत्ताय धीमते समाधियमयुक्ताय तादृशाय प्र-दापयेत् पुच्छदेशोपविष्टाय मुद्रिकाकर्णमात्रकैः ।पादुकोपानहौ छत्रं दत्त्वा मन्त्रमनुस्मरेत् दधि-क्राव्णेतिमन्त्रेण दधिधेनु प्रदापयेत् एवं दधिमयींधेनुं दत्त्वा राजर्षिसत्तम! एकाहारो दिनं तिष्ठेद्दधाच नृपनन्दन! यजमानो वसेद्राजन्! त्रिदिवं चद्विजोत्तमः! दीयमानां प्रपश्यन्ति तेऽपि यान्ति परांगतिम् दश पूर्वान् दश परानात्मानञ्चैकविंशकम् वि-ष्णुलोकमवाप्नोति यावदाहूतसंप्लवम् दाता दापका-श्चैव तेऽपि यान्ति परां गतिम् यत्र मधुवहा नद्योयत्र पायसकर्द्दमाः ऋषयो मुनयं सिद्धास्तत्र गच्छन्तिधेनुदाः इदं शृणुयाद्भक्त्या श्रावयेद्वापि मानवः ।सोऽश्वमेधफलं प्राप्य विष्णुलोकं गच्छति” वृतधेनु-विधिवत् सर्वमत्र कर्म्म