| YouTube Channel

दत्तात्मा (dattAtmA)

 
शब्दकल्पद्रुमः
Sanskrit
दत्तात्मा, [न्]
पुं,
(दत्तः आत्मा येन ।) पुत्त्र-विशेषः यथा, --“दत्तात्मा तु स्वयं दत्तः ।” इति कात्यायनः
अस्यविवरणम् “दत्तात्मा तु पुत्त्रो यो मातापितृ-विहीनस्ताभ्यां त्यक्तो वातवाहं पुत्त्रो भवामीतिस्वयं दत्तत्वमुपगतः ।” इति मिताक्षरा १३४
(विश्वदेवानामन्यतमः यथा, महाभारते ।१३ ९२ ३४ ।“सोमपः सूर्य्यसावित्रो दत्तात्मा पुण्डरीयकः
”)