| YouTube Channel

दत्तकपुत्र (dattakaputra)

 
Yates
English
दत्तक-पुत्र (त्रः) 1.
m.
A son given to
be adopted by another.
शब्दकल्पद्रुमः
Sanskrit
दत्तकपुत्त्रः,
पुं,
(दत्तक एव पुत्त्रः ।) द्वादशविध-पुत्त्रान्तर्गतपुत्त्रविशेषः यथा, याज्ञवल्क्ये ।“दद्यान्माता पितावा यं पुत्त्रो दत्तको भवेत्
”तत्परिग्रहणस्य प्रकारो यथा, --“शुक्रशोणितसम्भवः पुत्त्रो मातापितृनिमित्तकः ।तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः
नत्वेकं पुत्त्रं दद्यात् प्रतिगृह्णीयाद्वा हि सन्ता-नाय पूर्व्वेषाम् ।स्त्री पुत्त्रं दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानु-ज्ञानाद्भर्त्तुः
पुत्त्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि निवेद्यनिवेशनस्य मध्ये व्याहृतिभिर्हुत्वा प्रतिगृह्णीया-दिति ।” इति वशिष्ठः
तस्य गोत्रधनप्राप्ति-र्यथा, --“गोत्रऋक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः ।गोत्रऋक्थानुगः पिण्डो व्यपैति ददतः स्वघा
पितुर्गोत्रेण यः पुत्त्रः संस्कृतः पृथिवीपते ! ।आचूडान्तं पुत्त्रः पुत्त्रतां याति चान्यतः
चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः ।दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते
ऊर्द्ध्वन्तु पञ्चमाद्बर्षान्न दत्ताद्याः सुता नृप ! ।गृहीत्वा पञ्चवर्षीयपुत्त्रेष्टिं प्रथमञ्चरेत्
”इत्युद्वाहतत्त्वम्
दत्तको द्विविधः केवलदत्तकः द्व्यामुष्यायणदत्त-कश्च केवलदत्तको जनकेन प्रतिग्रहीत्रर्थमेवदत्तः तस्यैव पुत्त्रः द्व्यामुष्यायणस्तु जनकप्रति-ग्रहीतृभ्यामावयोरयमितिसंप्रतिपन्नः उभयो-रपि पुत्त्रः ।” इति मिताक्षरा