| YouTube Channel

दत्तं (dattaM)

 
Hindi
Hindi
दी
शब्दकल्पद्रुमः
Sanskrit
दत्तं, त्रि, (दीयते इति दा + क्तः ।) रक्षितम् ।कृतदानम् तत्पर्य्यायः विसृष्टम् इतित्रिकाण्डशेषः
विश्राणितम् इति शब्द-रत्नावली
(यथा, माघे १५ ।“स्वहस्तदत्ते मुनिमासने मुनि-श्चिरन्तनस्तावदभिन्यवीविशत्
”दा + भावे क्तः ।) दाने, क्ली तत् सप्तविधंयथा, --“दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम् ।पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः ।स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः
अदत्तन्तु भयक्रोधशोकावेशरुगन्वितैः ।तथोत्कोचपरीहारव्यत्यासच्छलयोगतः
बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् ।कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया यत्
अपात्रे पात्रमित्युक्ते कार्य्ये चाधर्म्मसंहिते ।यद्दत्तं स्यादवज्ञानात् तददत्तमिति स्मृतम्
”इति मिताक्षरा