| YouTube Channel

दण्ड्यः (daNDyaH)

 
शब्दकल्पद्रुमः
Sanskrit
दण्ड्यः, त्रि, (दण्ड्यते इति दण्ड + कर्म्मणि ण्यत् ।यद्वा, दण्डमर्हतीति दण्ड + “दण्डादिभ्यो यत् ।”५ ६६ इति यत् ।) दण्डनीयः दण्डि-तव्यः (यथा, मार्कण्डेये २८ ३४ ।“यश्चोल्लङ्घ्य स्वकं धर्म्मं स्ववर्णाश्रमसंज्ञितम् ।नरोऽन्यथा प्रवर्त्तेत दण्ड्यो भूभृतो भवेत्
”)तत्पर्य्यायः दण्डार्हः इति जटाधरः
(यथा, रघुः २५ ।“स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये
”)