दण्डपारुष्य (daNDapAruSya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte Hindi
Hindiदण्डपारुष्यम्
दण्डः- पारुष्यम् -
"सम्प्रहार, प्रघात"
दण्डपारुष्यम्
दण्डः- पारुष्यम् -
कठोर तथा दारुण दण्ड देना
Shabdartha Kaustubha
Kannadaदण्डपारुष्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹಿಂಸಿಸುವಿಕೆ /ಕೈಯಿಂದ ಹೊಡೆಯುವುದು ಕಾಲಿನಿಂದ ಒದೆಯುವುದು ಕತ್ತಿ ಮೊದಲಾದುವುಗಳಿಂದ ಹೊಡೆಯುವುದು ಮಣ್ಣು ಬೂದಿ ಮುಂತಾದುವನ್ನು ಎರಚುವುದು ಈ ರೀತಿ ನಾನಾ ಹಿಂಸೆಯನ್ನು ಕೊಡುವುದು
व्युत्पत्तिः - > दण्डेन देहेन पारुष्यं विरुद्धाचरणम्
प्रयोगाः - > "परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥"
उल्लेखाः - > नारदः
अभिधानचिन्तामणिः
Sanskritमृगयाक्षः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ७३८ ॥
दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ।
मृगया (स्त्री), अक्ष (पुं), स्त्री (स्त्री), पान (क्ली), वाक्पारुष्य (क्ली), अर्थदूषण (क्ली), दण्डपारुष्य (क्ली), व्यसनसप्तक (क्ली)
शब्दकल्पद्रुमः
Sanskritदण्डपारुष्यं, (दण्डेन यत् पारुष्यं परुषता ।दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत् पारुष्यंविरुद्धाचरणमिति मिताक्षरा ।) राज्ञां सप्त-व्यसनान्तर्गतव्यसनविशेषः । इति हेमचन्द्रः ।३ । ४०३ ॥
अष्टादशविवादान्तर्गतविवाद-विशेषः । तत्तु ताडनादि । इति मनुटीकायांकुल्लूकभट्टः ॥
(यथा, मनुः । ८ । २७८ ।“अत ऊद्ध्व प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥
”)
वाचस्पत्यम्
Sanskritदण्डपारुष्य दण्डेन देहेन पारुष्यम् । व्यवहारविषय-भेदे “तत्स्वरूपञ्च नारदेनोक्तम् “परगात्रेष्वभिद्रोहोहस्तपादायुधादिभिः भस्मादिभिश्चोपघातो दण्ड-पारुष्यमुच्यत” इति । “परगात्रेषु स्थावरजङ्गमात्मक-द्रव्येषु हस्तपाद्रायुधैरादिग्रहणाद्ग्रावादिभिर्योऽभि-द्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदि-ग्रहणाद् रजःपङ्कपुरीषाद्यैश्च य उपघातः संस्पर्शनरूपंमनोदुःखोत्पादनन्तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽने-नेति दण्डो देहस्तेन यत् पारुष्यं विरुद्धाचरणं जङ्ग-मादेर्द्रव्यस्य, तद्दण्डपारुष्यम्” मिता० ।तद्भेदादिकं वीरमि० उक्तं यथा“तस्य त्रैविध्यमाह नारदः । “तस्यापि दृष्टन्त्रैविध्यंहीनमध्योत्तमक्रमात् । अवगोरणनिःशङ्कपातनक्षत-दर्शनैः । हीनमध्योत्तमानाञ्च द्रव्याणां समतिक्रमात् ।त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनमिति” । अव-गोरणं ताडनाद्युद्योगः । निःशङ्कपातनं निःशङ्कप्रह-रणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव सहसा-कृतानि दण्डपारुष्याणीत्यर्थः । अन्यानपि भेदानाहपरिशिष्टकारः । “दुःखं रक्तं व्रणं भङ्गं छेदनं भेदन-न्तथा । कुर्य्याद्यः प्राणिनां तद्धि दण्डपारुष्य-मुच्यते” । स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतनखा-दिना छेदनादिभवं दुःखं रक्तव्रणादिकञ्च दण्डपारुष्य-मुच्यत इत्यर्थः । व्यासोऽपि “भस्मादिना प्रक्षिपणीताडनञ्च करादिना । आवेष्टनञ्चांशुकाद्यैर्दण्डपारुष्य-मुच्यते” । आदिग्रहणाद्दुःखकरं कर्दमपांशु-मलादि द्रव्यं गृह्यते । करादिनेत्यादिशब्देन पाषा-णेष्टकायुधादि द्रव्यम् । अंशुकाद्यैरित्यादिशब्देन रज्ज्वु-शृङ्खलादिद्रव्यम् । दण्डपारुष्यस्य पञ्चप्रकाराविधयो नारदेन दर्शिताः । “विधिः पञ्चविधस्तूक्तएतयोरुभयोरपि । पारुष्ये सति संरम्भादुत्पन्नेक्रुद्धयोर्द्वयोः । स मान्यते यः क्षमते दण्डभाग्योऽति-वर्त्तते । पूर्ववमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक् ।पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । द्वयो-रापन्नयोस्तुल्यमनुबध्राति यः पुनः । स तयोर्दण्ड-माप्नोति पूर्वो वा यदि चेतरः । पारुष्यदीषावृतयो-र्युगपत्सम्प्रवृत्तयोः । विशेषश्चेन्न लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचाण्डालव्यङ्गेषु बधवृत्तिषु ।हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च । मर्य्यादातिक्रमेसद्यो घात एवानुशासनम् । यमेव ह्यतिवर्त्तेरन्नेतेसन्तञ्जनं नृषु । स एव विनयं कुर्य्यात् न तद्विनय-भाङ्नृपः । मला ह्येते मनुष्याणां धनमेषां मलात्म-कम् । अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डये-दिति” । अयमर्थः । वाग्दण्डपारुष्ययोंसभयोरपिद्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते न तस्य केवलंदण्डाभाव एव किन्तु पूज्यत्वमपि । तथा पूर्वं कलहेप्रवृत्तस्य दण्डगुरुत्वम् । कलहे च वृद्धवैरानुसन्धातुरेवदण्डभाक्त्वम् । तथा तयोर्द्वयोरपराधविशेषापरि-ज्ञाने सम एव दण्डः । तथा श्वपचादिभिरार्याणामप-राधे कृते सज्जना एव दण्डने अधिकारिणस्तेषा-मशक्यत्वे तान् राजा घातयेदेव नार्थं गृह्णीयादिति ।यत्तु वृहस्पतिवचनम् “आक्रुष्टस्तु समाक्रोशंताडितः प्रतिताडयन् । हत्वापराधिनञ्चैव नापराधीभवेन्नरः” इति । तत्पूर्वप्रवृत्तस्य समो दण्डः पश्चात्प्रवृत्तस्य नेत्येवंपरन्न तु दण्डाभावपरम् । दण्डपारुष्यस्वरूपसन्देहे निर्णायकमाह याज्ञवल्क्यः “असा-क्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यव-हारस्तु कूटचिह्नकृतो भयादिति” । यदा कश्चिद्रहस्य-हमनेनाहत इति राज्ञे निवेदयति तदा चिह्नैर्व्रणा-दिभिस्तत्स्वरूपगतैर्लङ्गैः युक्तिभिः कारणप्रयोजनपर्य्यालोचनादिभिः आगमेन जनप्रवादेन चशब्दा-द्दिव्येन वा कूटचिह्नकृतसम्भावनभयात् परीक्षाकार्य्येत्यर्थः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
