दण्डनीतिः (daNDanItiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiदण्डनीतिः
दण्डः- नीतिः -
"न्याय प्रशासन, न्यायकरण"
दण्डनीतिः
दण्डः- नीतिः -
नागरिक तथा सैनिक प्रशासन
Wordnet
Sanskrit अर्थशास्त्रम्, दण्डनीतिः
शास्त्रविशेषः, राजपुत्रामत्यैः अवश्यम् अध्येतव्यम् अर्थस्य भूमिधनादेः च प्रापकं शास्त्रम्।
"चाणाक्यस्य अर्थशास्त्रम् प्रसिद्धम्।"
दण्डनीतिः
चतुर्षु नीतिषु एका नीतिः यस्यां सुशासनाय दण्डः उपयुज्यते।
"केचित् मुघलशासकः दण्डनीत्या शासनम् अकरोत्।"
शब्दकल्पद्रुमः
Sanskritदण्डनीतिः, (दण्डेन नीयते या । यद्बा, दण्डोनीयतेऽनयेति । नी + कर्म्मणि करणे वा क्तिन् ।)व्यर्यशास्त्रम् । इत्यमरः । १ । ६ । ५ ॥
तत्चाणक्यादिप्रणीतं नीतिशास्त्रम् । इति भरतः ।तस्य निरुक्तिर्यथा, --“दण्डेन नीयते चेदं दण्डं नयति वा पुनः ।दण्डनीतिरिति ख्याता त्रील्लोँ कानतिवर्त्तते ॥
तच्च ब्रह्मकृतशतसहस्राध्यायपरिमितम् ।तद्यथा, --“ततोऽध्यायसहस्राणां शतञ्चक्रे सुबुद्धिजम् ।यत्र धर्म्मस्तथैवार्थः कामश्चैवाभिवर्णितः ॥
त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा ।चतुर्थो भोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः ।स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥
नात्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च ।सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः ॥
त्रयी चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ ! ।दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥
अमात्यरक्षा प्रणिधी राजपुत्त्रस्य लक्षणम् ।चारश्च विविधोपायः प्रणिधेयः पृथग्विधः ॥
सामभेदप्रदानञ्च ततो दण्डश्च पार्थिव ।उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥
मलश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च ।विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम् ॥
सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः ।भयं सत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम् ॥
यात्राकालश्च चत्वारस्त्रिवर्गस्य च विस्तरः ।विजयो धर्म्मयुक्तश्च तथार्थविजयश्च ह ॥
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः ।लक्षणं पञ्चवर्गस्य त्रिविधञ्चात्र वर्णितम् ॥
प्रकागश्चाप्रकाशश्च दण्डीऽथ परिशब्दितः ।प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥
रया नागा हयाश्चैव पादाताश्चैव पाण्डव ! ।विष्टिनांवश्चराश्चेह देशिका इति चाष्टमम् ॥
अङ्गान्येतानि कौरव्य ! प्रकाशानि बलस्य च ।जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥
अर्गे चाभ्यवहार्य्ये वाप्युपांशुस्त्रिविधः स्मृतः ।अस्तिर्म्मित्रमुदामीन इत्येतेऽप्यनुत्वर्णिताः ॥
कृतम्नो मार्गगुणश्चैय तथा भूमिगुणाश्च ह ।आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम् ॥
कल्पना विविधाश्चापि नृनागरथवाजिनाम् ।व्यूहाश्च विविधाभिख्या विविधं युद्धकौशलम् ॥
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् ।शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ ! ॥
बलव्यसननिर्युक्तं तथैव बलहर्षणम् ।पीडा चापदकालश्च पत्तिज्ञानञ्च पाण्डव ! ॥
तथा खातविधानञ्च योगसञ्चार एव च ।चौरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥
अग्निदैरसदैश्चैव प्रतिरूपककारकैः ।श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥
दूषणेन च नागानां आशङ्काजननेन च ।आराधनेन भक्तस्य प्रत्ययोपार्जनेन च ॥
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धी समञ्जसम् ।दूतसामर्थयोगाश्च राष्ट्रस्य च विवर्द्धनम् ।अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम् ॥
अवमर्द्दः प्रतीघातस्तथा चैव बलीयसाम् ।व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ॥
श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः ॥
अभृतानाञ्च भरणं भृतानाञ्चान्नवेक्षणम् ।अर्थस्य काले दानञ्च व्यसने चाप्रसङ्गिता ॥
तथा राजगुणाश्चैव सेनापतिगुणाश्च ह ।कारणञ्च त्रिवर्गस्य गुणदोषास्तथैव च ॥
दुष्टेप्सितञ्च विविधं वृत्तिश्चैवानुजीविनाम् ।शङ्कितत्वञ्च सर्व्वस्य प्रमादस्य च वर्ज्जनम् ॥
अलब्धलाभो लब्धस्य तथैव च विवर्द्धनम् ।प्रदानञ्च विवृद्धस्य पात्रेभ्यो विधिवत्तदा ॥
विसर्गोऽर्थस्य धर्म्मार्थं कामहेतुकमुच्यते ।चतुर्थं व्यसनाघाते तच्चैवात्रानुवर्णितम् ॥
क्रोधजानि तथोग्राणि कामजानि तथैव च ।दशोक्तानि कुरुश्रेष्ठ ! व्यसनान्यत्र चैव ह ॥
मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ! ।कामजान्याहुराचार्य्याः प्रोक्तानीह स्वयम्भुवा ॥
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च ।निग्रहोऽथात्मनस्त्यागमर्थदूषणमेव च ॥
यन्त्राणि विविधान्येव क्रियास्तेषाञ्च वर्णिताः ।अवमर्द्दः प्रतीघातः केतनानाञ्च भञ्जनम् ।चैत्यद्रुमावमर्द्दश्च रोधः कर्म्मान्तनाशनम् ॥
उपस्कारोऽथ वसनं तथोपायाश्च वर्णिताः ।पनवानकशङ्खानां भेरीणाञ्च युधिष्ठिर ! ॥
उपार्ज्जनञ्च द्रव्याणां परिमर्द्दश्च तानि षट् ।लब्धस्य च प्रशमनं सताञ्चैवाभिपूजनम् ॥
विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता ।मङ्गलालभनञ्चैव शरीरस्य प्रतिक्रिया ॥
आहारयोजनञ्चैव नित्यमास्तिक्यमेव च ।एकेन च पथोत्थेयं सत्यत्वं मधुरा गिरः ॥
उत्सवानां समाजानां क्रियाः केतनजास्तथा ।प्रत्यक्षाश्च परोक्षाश्च सर्व्वाधिकरणेष्वथ ॥
वृत्तिर्भरतशार्दूल ! नित्यञ्चैवान्ववेक्षणम् ।अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् ॥
अनुजीविस्वजातिभ्यो गुणेभ्यश्च समुद्भवः ।रक्षणञ्चैव पौराणां राष्ट्रस्य त्त विवर्द्धनम् ॥
मण्डलस्था च या चिन्ता राजन् ! द्वादश-राजिका ॥
द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया ।देशजातिकुलानाञ्च धर्म्माः समनुवर्णिताः ॥
धर्म्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः ।उपायश्चात्र लिप्सा च विविधा भूरिदक्षिण ! ॥
मूलकर्म्मक्रिया चात्र मायायोगश्च वर्णितः ।दूषणं स्रोतसाञ्चैव वर्णितञ्च स्थिराम्भसाम् ॥
यैर्यैरुपायैर्लोकस्तु न चलेदार्य्यवर्त्मनः ।तत् सर्व्वं राजशार्दूल ! नीतिशास्त्रेषु वर्णितम् ॥
एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः ।देवानुवाच संहृष्टः सर्व्वान् शक्रपुरोगमान् ॥
उपकाराय लोकस्य त्रिवर्गस्थापनाय च ।नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥
दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।निग्रहानुग्रहरता लोकाननुचरिष्यति ॥
”इति महाभारते राजधर्म्मः ॥
दुर्गा । यथा, --“नयानयगतालोके विकल्प निलयामला ।दण्डनाद्गमनाद्वापि दण्डनीतिरिति स्मृता ॥
”इति देवीपुराणे ४५ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
